________________
Shri Mahavir Jain Aradhana Kendra
७ই
१
५
१०
१५
२०
२५
३०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तरः मातृका निघण्टुः
"ख: प्रचण्डो दक्षबाहुः शून्यश्वाकाश एव च । कपाली दन्तजातीशः श्रीखण्डी कामरूपिणः ॥ ख ॥ २७ ॥ गः पञ्चान्तः पृथग्रूपः शिवदर्शनसंज्ञकः ।
गणेश्वरो द्विजाख्यश्व गौरवी गौश्च स्वर्यगः ॥ ग ॥ २८ ॥ घः संहर्ता दक्षकरः काम (ल) रूपी शिवोत्तमः ।
खड़ी सभ्यो घोरनामा मेधा गौश्च घकारकः ॥ शिवाख्यो लाङ्गली मूलो दन्तुरो घुघुरोऽपि न ॥ घ ॥ २९ ॥ ङ - कारश्वव रुद्रश्च दक्षहस्तांगुलि नख: ।
खर्परश्च द्विजात्मा च एकवक्त्रो गतिस्तथा ॥ ङः ॥ ३० ॥ चः कूर्मो वामजङ्घाख्यो द्विनेत्रश्चक रूपकः । तृतीयलोचनश्चैव चर्ममुण्डधरस्तथा ॥ च ॥ ३१ ॥ छ- श्चक नेत्रो वामश्च वामबाहुश्च लाङ्गली । द्विशिरा एकपादश्च पशुः पशुपतिस्तथा ॥ छ ॥ ३२ ॥ ज-श्चतुराननो वामः कूर्परश्च त्रिशूलिनः ।
दीर्घबाहुश्च शाखाख्यो धातारश्च विभुस्तथा ॥ ज ॥ ३३ ॥ भो जिह्वा वामहस्तश्च कङ्कणः कृतमण्डलः । अकल्पक (त) श्च झङ्कारी दक्षशाखा गुहस्तथा ॥ दीर्घबाहू रसो रूपं नादाख्यश्चातिचञ्चलः ॥ झ ॥ ३४ ॥ नो धर्मः सुखदो ज्ञानी वामकरांगुली नखः । एकपादः कुण्डली च वामपाणिस्तथा नखः ॥ न ॥ ३५ ॥ ट-कारः सोमनाथाख्यः खेचरो दक्षस्फिक् कटिः । कपाली वामकटिश्च अर्धचन्द्रः पुनर्भवः ट ।। ३६ । ठकारो लाङ्गली चैव दक्षोरुर्वलः पुनः । पूर्णचन्द्रामृताख्यो च तथा करतलद्वयम् ॥
बनजा जीवनो जीवो वृषघ्नश्चन्द्रकः सुधा ॥ ठ ॥ ३७ ॥ ड-कारो दारुकः प्रोक्तो दक्षजानुश्च पालकः । बामबाहुश्च कौमारी तथा वे योगिनीप्रियः ॥ ड ॥ ३८ ॥ ढ - कारोऽप्यर्धनारीशो दक्षजङ्घाभिधस्तथा । विनायक : सिद्धिदाता विघ्नेशः सव्यबाहुकः ॥ ढ ॥ ३९ ॥ ण-कारश्च उमाकान्तो दक्षपादाभिधस्तथा ।
नारायणो द्विनेत्रश्च तथा वै योगिनां प्रियः ॥ ण ॥ ४० ॥
For Private and Personal Use Only