________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तर
মানুকালিঘUs:
श्रीभैरव उवाचनिघण्टमातृकां देवि कथयस्व प्रसादतः । यथा विज्ञातया देवि सर्वज्ञत्वं प्रजायते ।। यथा जानासि देवेशि निर्घण्टं कथयस्व मे ॥१॥
श्रीभैरव्युवाचसाधु साधु महाबाहो लोकानां हितकारक । परं गूढं निगूढश्च निर्घण्टमातृकाक्षरम् ॥२॥ गुरोः परम्पराज्ञातं सबाह्याभ्यन्तरस्थितम् । नहि जानन्ति ये मूढाः फलं न स्यान् महेश्वर ॥ ३ ॥ मन्त्रोद्धारप्रसङ्गश्च पूजाखण्डं गुरुक्रमम् । मालिनीशक्तिसङ्केतं सिद्धान्तं वामदक्षिणम् ॥ ४ ॥ गारुडं भूततन्त्रश्च भैरवं सारसंग्रहम् । निर्घण्टक मया प्रोक्तं शतकोटिप्रविस्तरम् ॥ ५ ॥
श्रीभैरव उवाचस्वच्छन्दगतिसद्भाव भेदनिन्दाविसर्पिणम् । किश्चिद किश्चिद जानामि न जानामि च मातृकाम् ॥ ६॥ अहीनमन्त्रं जानीयाद् हीनमन्त्रच मातृकाम् । गोत्रहीनश्च संस्थानं गुरुहीनं पदे पदे ॥ ७ ॥
श्रीभैरव्युवाचतव स्नेहाद प्रवक्ष्यामि निर्घण्टमातृकां शृणु । सर्वादी प्रणवो मन्त्रस्तदुद्धारं शृणु:प्रिय ।। ८ ॥ ॐ-कारो वर्तुलस्तारो बिन्दुशक्तिस्त्रितत्वकम् । प्रणवश्चन्द्र साद्यश्च पञ्चदेवो ध्रुवस्त्रिकः ॥ ॐ ॥ ९ ॥ श्रीकण्ठ आद्यजो ह्रस्वो ब्रह्म चवादिमातृका । सुरेशश्चैव वागीशः सारस्वतो ललाटजः ॥ अ॥ १०॥
२०
For Private and Personal Use Only