________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तरमातृकानिघण्टा ऊर्धदप्तालिज: सद्यः सङ्कर्षणस्त्रिमात्रकः । मन्त्रेशो नगसंज्ञश्च मात्रेशरत्वोस्वरः स्मृतः ॥ १४ ॥ अधोदन्तानिलो मित्रः प्रद्युम्नो:नुग्रहेश्वरः । नृसिहाख्यो मुरारिश्च मायाविच्चीस्वरः स्मृतः ॥ १५ ॥ ऊध्वदन्तश्चानिरुद्धो हरो भानुः स्वरः शशी । मनश्चानङ्ग-कवची निगूढ़ अं-स्वरः स्मृतः ॥ १६ ॥ कात्तिकेयोऽनिरुद्धश्च शिल्पाभिज्ञो रमापि च । सृष्टिः संहारकर्ता च विषं च अः स्वरः स्मृतः ।। १७ ।। याम्यकर्णादिकः क्रोधी वायुर्वद्विर्गदी रजा । यादवेशो मुरारिश्च कामाङ्गः कार्णकः स्मृतः ॥ १८ ।। दक्षिणकूपरः खेट: शाी चण्डीशकः खगः । कैटभारिश्च मातङ्गः संहारः खार्णकः स्मृतः ॥ १६ ॥ मणिबन्धस्थित: सिंहः पञ्चान्तक-गणेश्वरी । गौमुखो गजकुम्भश्च हलीशश्च गजाननः ॥ २० ॥ . अंगुलीमूलगो मेघो मुषली च शिवोत्तमः । बराहो धनकामश्च शिवाऽधो घार्णकः स्मृतः ॥ २१ ॥ दक्षांगुल्यग्रग: शूली क्लीवाख्यश्चैव रुद्रकः । डामरेशो हरिः श्रीमान् रुद्रेशो ङार्णकः स्मृतः ॥ २२ ॥ ना चामरादिकः कुर्मः शूली चन्द्रक सायको । भभेत्ता चित्रचारी च चञ्चलश्चार्णको मतः ।। २३ ॥ वामकृपरग: पाशी परिपूर्णकनेत्रको । त्रिबिन्दुको ज्वरी वामा श्लेषकरछार्णकः स्मृतः ॥ २४ ॥ वाममणिबन्धगतश्चतुर्मुखो जयन्तकः । जपज्योतिरनाकारो जनक उत जार्णकः ॥ २५ ॥ अंगुलीमूलगः खण्डः कुमुदः स्वस्तिकः स्मृतः । विख्यातक: स्थिराकारो झङ्कारो झार्णको मतः ॥ २६ ॥ वासांगुल्यग्रगः सोमो नन्दो विदिड् निरञ्जनः । सुधर्मो ह्यनुनासश्च ज्ञप्तिगो आणक: स्मृतः ।। २७ ।। दक्षपादादिगो नन्दी लाङ्गली चार्द्धचन्द्रकः । गजांकुशो मृगाद्यश्च बालेन्दुष्टार्णकः स्मृतः ॥ २८ ॥ याम्यगुल्फोऽर्द्धनारीशो भौमजो दिव्यनायकः । सुधाबिन्दुर्घटाकारः प्लावकष्ठाणको मतः ।। २९ ।।
२५
For Private and Personal Use Only