________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बोजनिघण्टुः १ . विद्युम्मुखो महाज्वाली कपाली भोषणो गुरुा ।
प्रहारी रौरवो दण्डी बलितोऽत्युग्रशूलधृक् । सिंहनादी कपर्दी च प्रलयाग्निर्भयङ्करः । बहुरूपी महाकाल: स्थिरात्मा क्षतजोक्षितः ॥ बलभेदी रक्तपटश्चण्डीशो ज्वलनध्वजः । धुमध्वजो व्योमवक्त्रस्त्रलोक्यग्रसनात्मकः ॥ (नयनश्रोत्रास्यनासाहृत्सु न्यासे दश स्वराः ।। ध्वजिनीधूम्रभरव्यावभावे च दृशोः स्मृते । मूलार्णमुखमादिष्टं हृदयं स्वरशक्तयः ।। आदिमध्यावसानेषु पूर्वाभावे यथोत्तरम् । ) . कण्ठास्यः कालवक्त्रेण महाकालेन भूषितः । तदादि: पञ्चरश्मिश्च सृष्टिस्थितिलयं विषम् ।। ॐ ॥ शूलिया सहितोऽग्निस्थश्चण्डीश इन्दुबिन्दुमान् ।
एतद्विष्णुप्रियाबीजं यम्मान्यं जगत: प्रियम् ॥श्री ॥ __ क्षतजस्थो व्योमवक्त्रश्चण्डोग्राबिन्दुभूषितः ।
आंद्रजा रोद्री धूतेशी बीजम् प्राथमिक प्रियम् ।। ह्रीं'। क्रोधीशो रक्तसंस्थश्च धूम्रभरव्यलंकृतः । विन्द्विन्दुसंयुतो बीजम् द्रावणं क्लेदनं स्मृतम् ।। क्री॥ व्योमास्यो बिन्दुसंयुक्तस्तालजङ्घाविभूषितः । कूर्च कालो महाकाल: क्रोधबीजम् निरञ्जनम् ।। हैं॥ उन्मत्तभैरवी रुद्र डाकिन्या च विभूषिता । नादेनाऽलंकृता बीजम् वाग्भवं बुद्धिवर्द्धनम् ।। ऐ॥ फडित्यस्त्र प्रसिद्ध स्याज् ॥ फट् ॥ ज्वालाग्निापकांकुशः ॥ क्रों ॥ शिरः स्वाहा विठो वह्निजाया ज्वलनवल्लभा ।। दक्षजानुद्वयं सेन्दुः देवास्यं वह्निसुन्दरी ।। स्वाहा । इन्द्रासनगतो ब्रह्मा त्रिमूर्तीन्दुश्च मन्मथ: ।। क्लों ।।
गजिनी-धूम्रभरव्यो दक्षवामपयोधरी। २८ व्योमास्यः कामवक्त्राब्यो वर्मबिन्दीन्दुसंयुतः ॥ हुँ ।।
२५
For Private and Personal Use Only