________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बोजनिघण्टु:
चण्डीश: क्षतजारूढ़ो ध्रम्रभैरव्यलंकृतः । नादबिन्दुसमायुक्तो बीजं विष्णुप्रिया मतम् ॥ श्री ॥ क्षतजस्थो व्योमवक्त्रो धूम्रभैरव्यलंकृतः । नादबिन्दुसमायुक्तो बीजं प्रार्थामकं स्मृतम् ।। ह्रीं ॥ क्राधीशः क्षतजारूढ़ो ध्रम्रभैरव्यलंकृतः । नादबिन्दुसमायुक्त: पितृभूवासिनी स्मृतः ।। क्रीं ॥ विदारीयुक्तं व्योमास्यं रुद्रराकिण्यलंकृतम् । कचं कालं क्रोधबीजं जानीहि वीरवन्दिते ॥ हूँ । नादबिन्दुसमायुक्तां समादायोग्रभैरवीम् । भौतिक वाग्भवं बीजं विद्धि सारस्वतं प्रिये ॥ ८॥ प्रलयाग्निर्महाज्वाल: ख्यातश्चास्त्रमनुः प्रिये ॥ फट् ।। क्रोधीशरक्तभीमाक्ष्योऽङकुशोऽयं नादबिन्दुमान् ॥ क्रो॥ विठः शिरो वह्विजाया स्वाहा ज्वलनवल्लभा ।। स्वाहा ॥ क्रोधीशो बलभिद् ध्रम्रभैरवीनादबिन्दुभिः । त्रिमूत्तिर्मन्मथः कामः बीजं व्यैलोक्यमोहनम् ॥ क्ली'। व्योमास्यः कालरात्र्यान्यों वर्म बिन्दीन्दुसंयुतः । कथितं कवचं बीज कुलाचारप्रियेऽमले ॥ हुँ॥ व्योमास्यः क्षतजारूढो डाकिनीनादबिन्दुभिः । ज्योतिर्मन्त्रः समाख्यातो महापातकनाशन: ।। ह्रीं । संयुक्तो धूम्रभरव्या रक्तस्थो बलिमोजनः । नादबिन्दुसमायुक्तः किङ्किणीबीजमुत्तमम् ॥ दी। वहुरूपिणमादाय क्षतजोक्षितसंस्थितम् ।। विदार्यालिङ्गितं तद्वद् विशेषार्थो महामनुः ॥ध्र। धमध्वजाधः कालाग्निः सोर्ध्वकेशीन्दुबिन्दुभिः । युगान्तकारकं बीजं भैरवेण प्रकाशितम् ॥ स्फे। संहारिन्याश्रितश्चोर्ध्वकेशिनी तु कपद्दिनम् । नादबिन्दुसमायुक्तं बीजं वैतालिकं स्मृतम् ॥ प्ले ॥ सनादबिन्दु क्रोधीशं गृह्यसंहारिणीस्थितम् । कम्पिनीबीजमित्युक्तं द्विठेनोक्ता मनोहरी ।। क्ली' स्वाहा ।।
२५
२६
For Private and Personal Use Only