________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकाक्षरकोष धने रा रीश्च रो धान्ये रुभये च प्रकीर्तितः। ल इन्द्रे लवणे ल: स्याल्लादाने श्लेषणेऽपि ली: ॥ ३०॥ ल: श्लेष चाशये चैव प्रलये साधनेऽपि ल: । मानसे वरुणे चैव लकारः सान्त्वनेऽपि च ॥ ३१ ॥ प्रचेता व: समाख्यातः कलसे व प्रकीर्तितः । पक्षी च विनिगदितो गमने वि: प्रकीर्तितः ॥ ३२ ॥ वदन्ति शं बुधाः श्रेयः शश्च शास्ता निगद्यते । शी: शसं शयनं चाहुहिंसा शूश्च निगद्यते ॥ ३३ ॥ ष-कारः कीर्त्यते श्रेष्ठे खूश्च गर्भविमोचने । उपसर्ग परोक्षे च षकारपरिकीत्तितः ॥ ३४ ॥ सोऽपसर्गः समाख्यातः सा तु लक्ष्मीनिगद्यते । स: कोपे करणे स: स्यात्तथा शूलिनि कीर्तितः ॥ ३५ ॥ सकारो वानरः प्रोक्तः सकारः सबै उच्यते । सा चैव गो: समाख्याता संसर्ग स प्रकीत्तितः ।। ३६ ॥ हः कोपे धारणेऽपि स्याद् हः शूलिनि समीरितः । हिः पद्यपूरणे प्रोक्तो हिः स्याद् हेत्ववधारणे ।। ३७ ।। क्षः क्षेत्रे रक्षसि प्रोक्तो नियतं शब्दवेदिभिः । क्षिः क्षेत्रे क्षत्ररक्षे च नृसिंहे च प्रकीत्तितः ॥ ३ ॥
इति श्रीपुरुषोत्तमदेवविरचित.. एकाक्षरकोषः समाप्त: ।
१०
.
For Private and Personal Use Only