________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तर मन्त्राभिधानम्
अं॥ ३९ ॥ अ-ङ्कारश्चक्षुषण दन्तो घटिका समगुह्मकः । प्रद्युम्नः श्रीमुखी प्रीति:जयोनिवृषध्वजः ॥ ४९ ॥ परं शशी प्रमाणीश: सोमो बिन्दुः कलानिधिः । अक्ररश्चेतना नादः पूर्णा दुःखहर: शिवः ॥ ५० ॥ शिरः शम्भुनरेशश्च सुखदुःखप्रवर्तकः । पूर्णिमा रेवती शुद्धः कन्याचर(रो)रविवियत् ॥५१॥ अमृताकर्षिणी शून्यं विचित्रा व्योमरूपिणी । केदारो रात्रिनाथश्च कुब्जिका चव बुबुदः ।। ५२ ।।
अः ॥ ३० ॥ अ: कण्ठको महासेनः कला पूर्णामृता हरिः । इच्छा भद्रा गणेशश्च रतिविद्या सुखं मुखम् ॥ ५३ ॥ द्विविन्दू रसना सोमोऽनिरुद्धो दुःखसूचकः । द्विजिह्वः कुण्डलं वक्त्रं सर्गः शक्तिनिशाकरः ॥ ५४ ॥ सुन्दरी सुयशानन्ता(न्दा) गणनाथो महेश्वरः ।। ५५ ।।
- क ॥ ४२ ॥ कः क्रोधीशो महाकाली कामदेव: प्रकाशक: । कपाली त(ते)जसः शान्तिर्वासुदेवो जयाऽनलः ॥ ५६ ॥ चक्री प्रजापति: सृष्टिईक्षस्कन्धो विशाम्पतिः । अनन्तः पाथिवो बिन्दुस्तापिनी परमार्थकः ।। ५७ ॥ वर्गाद्यश्च मु(सु)खं ब्रह्मा सखाम्भोधि: शिरो(वो) जलम् । माहेश्वरी तुला पुष्पं (पा) मङ्गलश्चरणं कर: ।। ५८ ।। नित्या कामेश्वरी मुख्य: कामरूपो गजेन्द्रका । श्रीपुरं रमणी वङ्गकुसुमा परमात्मकः ।। ५९ ॥
ख॥ २६॥ ख: प्रचण्ड: कामरूपी ऋद्धिर्वह्निः सरस्वती । आकाशमिन्द्रियं दुर्गा चण्डीशस्तापिनी गुरुः ॥ ६ ॥ शिखण्डो दन्तजातीशः कफोणिर्गरुडो यतिः ।
शून्यं कपाली कल्याणी सूर्पकर्णोऽजरामरः ॥ ६१ ॥ १ कन्या चरा वियद्रवि: २ विद्यामुखी ३ दुःखसूचकौ ४ दक्षकक्षो निशापतिः ५ सखाद्योऽम्भः ६ अनङ्गकुसुमा, रंग: कुसुमिति वा पाढः
२५
m
For Private and Personal Use Only