________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारान्तर
मन्त्राभिधानम्
ॐ ॥ ३५ ॥ ओङ्कारो वर्तुलस्तारो वामश्च हंसकारणम् । मन्त्राद्यः प्रणवः सत्यं बिन्दुशक्तिस्त्रिदेवतम् ॥ १॥ सर्वबीजोत्पादकश्च पञ्चदेवो ध्रुवस्त्रिकः । सावित्री विशिखो ब्रह्म त्रिगुणो गुणजीवकः ॥ २ ॥ आदिबीजं वेदसारो वेदवीजमत: परम् । पञ्चरश्मिस्त्रिकूटे च त्रि(तार)भवो भवनाशन: ।। ३ ।। गायत्री-बीजपञ्चांशी मन्त्रविद्याप्रसूः प्रभुः ।। अक्षरं मातृकासूश्चानादिरद्वत मोक्षदौ ॥ ४ ॥
अ॥४२॥ मः श्रीकण्ठः सुरेश ललाटश्चकमात्र(१)कः । पूर्णोदरी सृष्टिमेधी सारस्वतः प्रियंवदः ॥ ५ ॥ महाब्राह्मी वासुदेवो धनेशः केशवोऽमृतम् ।। कोत्तिनिवृत्तिर्वागीशो नरकारिहरो मरुत् ॥ ६ ॥ ब्रह्मा वामाऽऽधजो ह्रस्वः करसूः प्रणवाद्यकः । ब्रह्माणी कामरूपश्च कामेशी वासिनी वियत् ॥ ७ ।। विश्वेश: श्रीविष्णुकण्ठौ प्रतिपत्ति: स्थिर शिनो' । अर्कमण्डलवर्णाद्यो ब्राह्मणः कामकर्षिणी॥८॥
आकारो विजयाऽनन्तौ दीर्घच्छायो विनायक: । क्षीरोदधिः पयोदश्च पाशो दीर्घास्यवृत्तको ॥९॥ प्रचण्ड एकजो रुद्रो नारायण इभेश्वरः । प्रतिष्ठा मानदा कान्तो विश्वान्तक-गजान्तको ॥ १० ॥
पितामहो द्विठान्तो भूः क्रिया कान्तिश्च सम्भवः । १ प्रतिपत्तिथिरश्विनीति पाठान्तरम् ।
For Private and Personal Use Only