________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्राभिधानम्
ह-कारो नकुलीशोऽपि हंस: प्राणोऽगुलं प्रिये !। महेशो नकुली व बराहो गगनं रविः ॥ २६ ॥ ल-कारो विमलो जीवः शिवो भूगिनने !। क्ष-कारो नरसिंहश्च मेस: संवतकोऽपि च ।। ३० ।। तव स्नेहान्महादेवि ! कथितं मातृकाक्षरम् । पर्यायैरपि विज्ञेयं न प्रकाश्यं कदाचन ।। ३१ ।। ओङ्कारः प्रणवो ध्रुवश्च गिरिजे ! तारश्च वेदादिको ह्रीं लज्जा गिरिजा घ शक्तिरपि हुल्लेखा च माया परा । श्रीकारः कमला च विष्णुनिता क्रोङ्कारबीजं शृणि: स्वाहा वह्निवधूः शिरोऽपि ठयुगं फटकारमस्त्राक्षरम् ॥ ३२ ॥ हूं कूर्च परमेशि ! दीर्घकवचं हुं वर्मबीजं नमः स्वान्तं हृच्च रतिस्तुषारगिरिजे ! स्त्री कारवीजं वधू. । ऐङ्कारोऽपि च वाग्भवोऽथ सुतरां आंबीजकं पाशक सौदेवी च परा च शक्तिरथ वं तत् तोयबीजं प्रिये ! ।। ३३ ।। क्लीं कामो ग्लौञ्च भूबीजं श्रौं विश्वः क्षों नृकेशरी । हौं प्रासादं शिवो गव विघ्नराज उदाहृतम् ॥ ३४ ।। ई-कारो वेदमाता च क्लीबं ऋ ऋ ल ल च वै । एतत् सर्व महेशानि ! पठनीयं प्रयत्नतः ॥ ३५ ॥
१५
१८
For Private and Personal Use Only