________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन्त्राभिधानम् कः क्रोधीशो मुखं चक्री व्रतदेवः सुरो रविः । खश्चण्डो देवि ! चण्डेश ऋद्धिश्चव तथा गदी ।। १३ ॥ ग-कारो देवि ! शारङ्गी स्मृति: पञ्चान्तकोऽपि च । घ-कारश्च महेशानि ! खड्गी चैव शिवोत्तमः ॥ १४ ॥ ड-कारश्चैव रुद्रश्च शङ्खी चैव वरानने !। प-कारः कूर्चसंज्ञः स्यात् कथितश्च प्रिये ! हली ॥ १५ ।। छ-कारो मुषली ज्ञेय एकनेत्रश्च शैलजे !। जः शिवोऽचिमहेशानि ! शूली च चतुराननः ॥ १६ ॥ झः पाशी स्यादजेशश्च ज-कारः सर्वकोऽङ्कुथी । ट-कारो देवि ! सोमेशो मुकुन्दश्च प्रकीर्तितः ।। १७ ॥ ठ-कारो लाङ्गली चन्द्रो नन्दयोनिगात्मजे !। ड-कारश्च महेशानि ! खड्गार्धाकारसंज्ञकः ॥ १८ ॥ ढ-कारश्चार्धनारीशो नवश्च परमेश्वरि !। नकारश्चाप्युमाकान्तो विज्ञेयो नरजित् प्रिये ! ॥ १६ ॥ त-कारो हरिराख्यात आपटी च वरानने !। थ-कारो देवदेवेशि ! कुष्ठो दण्डी च कीत्तितः ॥ २० ॥ द-कारः पत्यसंज्ञः स्यादद्रिश्च परमेश्वरिः । ध-कारश्च महेशानि ! मीनः सानुग एव च ॥ २१ ॥ न-कारो मेषसंज्ञः स्याद्दी/ सौरिश्च कोत्तितः । प-कारो लोहित: पावं शूरश्च परमेश्वरि !॥ २२ ॥ फ-कारश्च महेशानि ! शिखी चव जनार्दनः । ब-कारो भूधरश्चव दश गण्डो वरानने ! ॥ २३ ।। भ-कारश्च द्विवचनो विश्वमूत्तिश्च कीर्तितः । म-आदित्यो महाकालो वैकुण्ठोऽपि विषं प्रिये ! ॥ २४ ॥ य-कारः पवनः कालो पुरुषोत्तम एव च । रोऽसुः पञ्चकसीशोऽग्निरंकुशं परगुविणी ॥ २५ ॥ ल-कारश्च पिनाकीश इन्द्रांशी स्वर्बलानुजः ।। व.कारो वरुणो बालो मेद: खड्नीश्वरोऽजरः ॥ २६ ।। श-कारश्च महेशानि ! वृषध्न: कथितो वकः । ष-कारः श्वेत आख्यातो मूर्द्धन्यो वृषसंज्ञकः ॥ २७ ॥ सः कुली शक्तिराख्यातो हंसो दु:खीशसंज्ञकः ।। भृगुर्देवो च परमा चन्द्रोऽपि परमेश्वरि ! ॥ २८ ॥
२०
२५
३०
For Private and Personal Use Only