________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
मुद्रानिघण्टुः कनिष्ठानामिके देवि युक्ते तेन क्रमेण च । तजनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे ।। १३३ ॥ अंगुष्ठौ तु महेशानि सरलावपि कारयेत् । इयं सा खेचरी नाम्ना मुद्रा सर्वोत्तमा मता ॥ १३४ ॥ परिवर्त्य करौ स्पृष्टवावर्द्धचन्द्राकृती प्रिये । तर्जन्यांगुष्ठयुगलं युगपत् कारयेत्ततः ॥ १३५ ॥ अध: कनिष्ठावष्टब्धे मध्यमे विनियोजयेत् । तथैव कुटिले योज्ये सर्वाधस्तादनामिके ।। बीजमुद्रेयमचिराव सर्वसम्पद्विवद्धिनी ॥ १३६ ।। मध्यमे कुटिले कृत्वा तर्जन्युपरि संस्थिते । अनामिके मध्यगते तथैव हि कनिष्ठिके ॥ १३७ ॥ सर्वा एकत्र संयोज्या अंगुष्ठपरिपीडिताः । एषा तु प्रथमा मुद्रा योनिमुद्रेयमोरिता ॥ १३८ । अन्योन्याभिमुखो हस्ती कृत्वा तु ग्रथितांगुली । अंगुष्ठ-मध्यमे भूयः संलग्ने सुप्रसारिते ।। महामुद्रेति विख्याता परा मुक्तिकरी तथा ॥१३९ ।। एता मुद्रा महेशानि त्रिपुराया मयोदिताः । पूजाकाले प्रयोक्तव्या यथानुक्रमयोगत: ।। १४० ॥ बामहस्तेन मुष्टिन्तु बद्ध्वा कर्णप्रदेशके । तर्जनों सरलां कृत्वा भ्रामयेन्मनुवित्तमः॥ सौभाग्यदण्डिनी मुद्रा ज्यासकालेऽपि सूचिता ॥ १४१॥ अन्तरंगुष्ठमुष्ट्या तु निरुध्य तर्जनीमिमाम् । रिपुजिह्वाग्रहा मुद्रा न्यासकाले तु सूचिता ।। १४२ ॥ बद्ध्वा तु योनिमुद्रां वै मध्यमे कुटिले कुरु । अंगुष्ठौ च तदने तु मुद्रेयं भूतिनी मता ॥ १४३ ॥ वाममुष्टि विधायाथ तर्जनी-मध्यमे ततः । प्रसार्य तर्जनीमुद्रा निर्दिष्टा वज्रपाणिना ॥ १४४ ॥ इतीदं कथितं भद्रे मुद्राणां लक्षणं स्फुटम् । पूजाकाले जपे स्नाने देवतासन्निधायकम् ॥ गोप्यं कुरु महादेवि न देयं कितवे शठे ।। १४५ ॥ इति श्री वामकेश्वरतन्त्रे उमामहेश्वरसंवादे मुद्रानिघण्टुः समाप्त: ।
समाप्तोऽयं ग्रन्थः ।
१५
२५
For Private and Personal Use Only