________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
मुद्रानिघण्टुः १ . वामकेश्वरतन्त्रोक्ता: प्रकाश्यन्तेऽत्र मुद्रिकाः ॥ ११६ ।।
श्रीशिव उवाच । शृणु देवि प्रवक्ष्यामि मृद्राः सर्वार्थसिद्धिदाः । यामिविरचिताभिस्तु सान्निध्या त्रिपुरा भवेत् ॥ १२० ।। परिवर्त्य करौ स्पृष्टावंगुष्ठौ कारयेत् समौ । अनामान्तर्गते कृत्वा तर्जन्यो कुटिलाकृति ।। १२१ ॥ कनिष्ठिके नियुञ्जीत निजस्थाने महेश्वरि । त्रिखण्डेयं समाख्याता त्रिपुराह्वानकर्मणि ।। १२२ ॥ मध्यमामध्यगे कृत्वा कनिष्ठंगुष्ठरोधिते । तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके ॥ एषा तु प्रथमा मुद्रा सर्वसंक्षोभकारिणी ॥ १२३ ॥ एतस्या एव मुद्राया मध्यमे सरले यदा। क्रियेते परमेशानि तदा विद्राविणो भवेत् ॥ १२४ ।। मध्यमा तर्जनीभ्यान्तु कनिष्ठानामिके समे । अंकुशाकाररूपाभ्यां मध्यमे परमेश्वरि ।। १२५ ।। अंगुष्टं तु नियुञ्जीत कनिष्ठानामिकोपरि । इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षिणी मता ॥ १२६ ।। पुटाकारी करौ कृत्वा तर्जन्यावंकुशाकृती। ' परिवर्त्य क्रमेणव मध्यमे तदधोगते ॥ १२७ ॥ क्रमेण देवि तेनैव कनिष्ठानामिके तथा । संयोज्य निविडा: सर्वा अंगुष्ठस्याग्रदेशत: ।। मुद्रेयं परमेशानि सर्ववश्यकरी मता ॥ १२८ ।। सम्मुखौ तु करौ कृत्वा मध्यमा मध्यगेऽन्त्यजे । अनामिके तु सरले तद् बहिस्तर्जनीद्वयम् ॥ १२६ ।। दण्डाकारी ततोऽङ्गुष्ठौ मध्यमानखदेशगी । मुद्रषोन्मादिनी नाम क्लेदिनी सर्वयोषिताम् ॥ १३०॥ अस्यान्त्वनामिकायुग्ममधः कृत्वांकुशाकृति । तर्जध्यावपि तेनैव क्रमेण विनियोजयेत् ।। इयं महांकुशा मुद्रा सर्वकामार्थसाधिनी ॥ १३१॥ सव्यं दक्षिणदेशे तु सव्यदेशे तु दक्षिणम् । बाहुं कृत्वा महादेवि हस्तौ संगरिवर्त्य च ॥ १३२ ॥
१५
२०
For Private and Personal Use Only