SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ मुद्रानिघण्टु! अधोमुखे वामहस्ते ऊर्धास्यं दक्षहस्तकम् । क्षिप्त्वांगुलीभिः संयोज्य हस्तौ तु परिवर्तयेत् ।। एषा संहारमुद्रा स्याद्विसर्जनविधी मता ॥ १०५ ॥ दक्षपाणिपृष्ठदेशे वामपाणितलं न्यसेत् । अंगुष्ठी चालयेत् सम्यङ्मुद्रे मत्स्यरूपिणी ॥ १०६ । वामहस्तस्य तर्जन्या दक्षिणस्य कनिष्ठिकाम् । तथा दक्षिणतजन्यां वामांगुष्ठं नियोजयेत् ।। १०७ ।। उन्नतं दक्षिणांगुष्ठं वामस्य मध्यमादिकाः । अंगुलीर्योजयेत् पृष्ठे दक्षिणस्य करस्य च ॥ १०८ ॥ कूर्मपृष्ठसमं कुर्याद् दक्षपाणिश्च सर्वतः । कुममुद्रेयमाख्याता देवताध्यानकर्मणि ॥ १०९॥ अन्तरांगुष्ठमुष्टिं तु कृत्वा वामकरस्य च । मध्यमाद्या दक्षिणस्य तथानम्य प्रयत्नतः ॥ ११० ॥ मध्याकेनाऽथ तर्जण्या अंगुष्ठाग्रं तु योजयेत् । दक्षिणं योजयेत् पाणि वामुमुष्टो तु साधकः ।। दर्शयेद् दक्षिणे भागे मुण्डमुद्रेयमुच्यते ।। १११ ॥ योनिमुद्रा च वक्तव्या बीजाख्यापि च भूतिनी ॥ ११२ ।। परिवर्त्य करी स्पृष्ठौ कनिष्ठाकृष्टमध्यमे । अनामायुगलं चाधस्तर्जनीयुगलं पृथक् ।। ११३ ।। अन्योन्यं निविडं बद्धांगुष्ठानेऽनामिके ततः । पुटाकारी करो कृत्वा तव्यावं कुशाकृती। दानवधूमकेत्वाख्या मुद्वैषा कथिता प्रिये ॥ ११४ ॥ वक्त्रं विस्तारितं कृत्वाऽप्यधो जिह्वां च चालयेत् । पार्श्वस्थं मुध्युिगलं लेलिहानेति कीतिता ॥ ११५ ॥ योनिर्मायाऽधर: सेग्दुर्वधूः कूर्च क्रमाद् विदुः । वीजानि चोश्चरन् मन्त्री मुद्राबन्धनमाचरेत् ॥ ११६ ॥ तर्जनीमध्यमानामाः समं कुर्यादधोमुखीः । अनामायां क्षिपेद् वृद्धामृज्वीं कृत्वा कनिष्ठिकाम् ।। लेलिहा नाम मुद्रेयं जीवन्यासे प्रकीर्तिता ॥ ११७ ॥ तर्जन्यनामिकामध्याकनिष्ठाक्रमयोगतः । करयोर्योजयत्येव कनिष्ठामूलयोगतः ॥ अंगुष्ठाग्रे तु निःक्षिप्य महायोनिः प्रकीर्तिता ।। ११८ ॥ For Private and Personal Use Only
SR No.020799
Book TitleDictionaries Tantrashastra
Original Sutra AuthorN/A
AuthorRamkumar Rai
PublisherPrachya Prakashan
Publication Year1984
Total Pages180
LanguageHindi, English
ClassificationBook_Devnagari
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy