________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८
भुद्रानिघण्टुः अध:कृतो दक्षहस्तः प्रसृतो वरमुद्रिका । ऊर्वीकृतो वामहस्त: प्रसृतोऽमयमुद्रिका ॥७३॥ मिलितानामिकांगुष्ठे मध्यमाग्रन्तु योजयेत् । शिष्टांगुल्युच्छिते कुर्यान्मृगमुद्रेयमीरिता ।। ७४ ।। पञ्चांगुल्यो दक्षिणास्तु मिलिता ऊर्ध्वमुन्नताः । खट्वाङ्गमुद्रा विख्याता शिवस्यातिप्रिया मता ।। ७५ ॥ पात्रवद्वामहस्तश कृत्वा वामांसके तथा । निधायोच्छ्रितवत् कुर्याम्मुद्रा कापालकी मता ।। ७६ ।। मुष्टिय शिथिलां बवा ईषदुच्छितमध्यमाम् । दक्षिणामूर्द्धमुसोल्य कर्णदेशे प्रचालयेत् ॥ ७ ॥ एषा मुद्रा डमरुका सर्वविघ्नविनाशिनी । ततो गणेशमुद्राणामुच्यन्ते बक्षणानि च ॥ ७८ ।। उत्तानोर्ध्वमुखी मध्या सरला बद्धमुष्टिका । दन्तमुद्रा समाख्याता सर्वागमविशारदः ॥ ७९ ॥ बाममुष्टस्तु तर्जन्या दक्षमुधिस्थतर्जनीम् । संयोज्यांगुष्ठकानाभ्यां तर्जन्यग्ने स्वके क्षिपेत् ॥ ८ ॥ एषा पाशाह्वया मुद्रा विद्भिः परिकीतिता। ऋज्वी मध्यमां कृत्वा तर्जनी मध्यपर्वणि ॥१॥ संयोज्याकुञ्चयेत् किश्चिन्मुद्रषांकुशसंज्ञिका । तर्जनीमध्यमासन्धिनिःसृतांगुष्ठमुष्टिका ॥ २ ॥ अधोमुखी दीर्घरूपा मध्यमा विघ्नमुद्रिका । पशुमुद्रा निगदिता प्रसिद्धा लड्ड्डमुद्रिका ।। ८३ ॥ वीजपूराह्वया मुद्रा प्रसिद्धत्वादुपेक्षिता। शाक्तेयानाच मुद्राणां कथ्यन्ते लक्षणानि च ॥ ८४ ॥ पाशांकुशवराभीतिधनुर्वाणा: समीरिताः । कनिष्ठानामिके बद्धवा स्वांगुष्ठेनैव दक्षत: ।। ८५ ॥ श्लिष्टांगुली च प्रसृष्टे खङ्गमुद्रिका। वामहस्तं तथा तिर्यक् कृत्वा चंव प्रसारयेत् ॥८६॥ आकुश्चिनांगुली: कुर्याधर्ममुद्रेयमीरिता । मुष्टि कृत्वा तु हस्ताभ्यां वामस्योपरि दक्षिणाम् ॥ ८७॥ कुर्यान्मूषलमुद्रेयं सर्वविघ्नविनाशिनी। मुष्टिं कुत्वा कराभ्याञ्च वामस्योपरि दक्षिणाम् ॥ ८८ ॥
२०
२५
For Private and Personal Use Only