________________
Shri Mahavir Jain Aradhana Kendra
૦૬
१
५
१०
१५
२०
२५
३०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुद्रानिघण्टु :
मुखं निवृत्तकं कृत्वा लेलिहानां च जिह्विकाम् । नारसिंही भवेदेषा मुद्रा तत्प्रीतिवर्द्धनी ॥ ५७ ॥ अंगुष्ठाभ्याञ्च करयोरथाक्रम्य कनिष्ठिके । अधोमुखीभिः सर्वाभिर्मुद्रेयं नृहरेः स्मृता ॥ ५८ ॥ दक्षोपरि करं वामं कृत्वोत्तानमधः सुधीः ।
भ्रा (न) मयेदिति संप्रोक्ता मुद्रा वाराहसंज्ञिका ॥ ५९ ॥ दक्षहस्तयोर्द्धमुखं वामहस्तमधोमुखम् । अंगुल्यग्रन्तु संयुक्तं मुद्रा वाराहसंज्ञिका । ६० ॥ वामहस्ततले कृत्वा दक्षांगुलिमधोमुखीम् । संरोप्य मध्यमानामे मुखस्याधो विकुशयेत् ॥ ६१ ॥ हयग्रीवप्रिया मुद्रा तम्मूतैरनुकारिणी ।
वामस्य मध्यमाग्रन्तु तर्जन्यग्रे तु योजयेत् ॥ ६२ ॥ अनामिकां कनिष्ठाच तस्यांगुष्ठेन पीडयेत् । स्पर्शयेद्वामके स्कन्धे धनुर्मुद्रेयमीरिता ॥ ६३ ॥ दक्षमुष्टस्तु तर्जण्या दीर्घया वाणमुद्रिका |
तले तलन्तु करयोस्तिर्य्यक् संयोज्य बांगुलीः ॥ ६४ ॥ संहताः प्रसृताः कुर्यान्मुद्रेयं पशुसंज्ञिका । ऊर्द्धस्थांगुष्ठष्टी द्वे मुद्रा त्रैलोक्यमोहिनी ॥ ६५ ॥ हस्तो तु सम्पुटी कृत्वा प्रसृतांगुलिको तथा । तर्जन्यो मध्यमापृष्ठे अंगुष्ठौ मध्याश्रितौ ॥ ६६ ॥ काममुद्रेयमुदिता सर्वदेवप्रियङ्करी । सदाशिवप्रियाणाञ्च कथ्यन्ते लक्षणानि च ॥ ६७ ॥ उच्छ्रितं दक्षिणांगुष्ठं वामांगुष्ठेन बन्धयेत् । वामांगुली ईक्षिणाभिरंगुलीभिश्च बन्धयेत् ॥ ६८ ॥ लिङ्गमुद्रयमाख्याता शिवसान्निध्यकारिणी | मिथः कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके ॥ ६९ ॥ अनामिकोर्द्धसंश्लिष्टदीर्घ मध्यमयोरधः । अमुष्ठाग्रद्वयं न्यस्येद्योनिमुद्रेयमीरिता ॥ ७० ॥ अंगुष्ठेन कनिष्ठान्तु बद्ध्वा दक्षांगुलीत्रयम् । प्रसारयेत् त्रिशूलाख्या मुद्रेषा परिकीर्तिता ॥ ७१ ॥ अंगुष्ठतर्जन्यग्रे तु ग्रन्थयित्वां गुलित्रयम् । प्रसारयेदक्षमाला - मुद्रेयं परिकीर्तिता ॥ ७२ ॥
For Private and Personal Use Only