________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५.
मुद्रानिघण्टा अन्योन्याभिमुखौ हस्ती कृत्वा तु ग्रथितांगुली ।। ४१ ।। अंगुल्यो मध्यमे भूयः सुलग्ने सुप्रसारिते। गदामुद्रेयमाख्याता विष्णोः सन्तोषद्धिनी ।। ४२ ॥ हस्तौ तु सम्मुखौ कृत्वा सन्नतावन्नतांगुली । तलान्तमिलिागुष्ठी मुद्रैषा पद्मसंज्ञिका ।। ४३ ॥ ओष्ठे वामकरांगुष्ठो लग्नस्तत्र कनिष्ठिका । दक्षिणांगुष्ठसंलग्ना तत्कनिष्ठा प्रसारिता ॥४४॥ तर्जनीमध्यमानामा: किञ्चित् सङ्कोच्य चालिताः । वेणुमुद्रा भवेदेषा सुगुमा प्रेयसी हरे:॥ ४५ ॥ अन्योन्यस्पृष्टकरयोमध्यमानामिकांगुली। अंगुष्ठेन तु बघ्नीयात् कनिष्ठामूलसंधि(स्थि)ते ॥ ४६ ॥ तजन्यो कारयेदेषा मुद्रा श्रीवत्ससंज्ञिका। अनामिकापृष्ठलग्नां दक्षिणस्य कनिष्ठिकाम् ॥ ४७ ।। कनिष्ठयाऽन्यया बदवा तजव्या दक्षया तथा। वामामनामां बध्नीयाक्षिणांगुष्ठमूलके ।। ४८ ॥ अंगुष्ठमध्यमे वामे संयोज्य सरलाः पराः । चतस्रोऽप्य प्रसंलग्ना मुद्रा कौस्तुभसंज्ञिका ॥ ४९ ॥ स्पृशेत् कण्ठादिपादान्तं तजन्यांगुष्ठनिष्ठया । करद्वयनमालाव-मुद्रेयं वनमालिका ॥ ५० ॥ तजन्यंगुष्ठको सक्तौ वक्रतो हृदि विन्यसेत् । वामहस्तानु(म्बु)ज वामजानुपूर्द्धनि विन्यसेत् ॥ ५१ ॥ ज्ञानमुद्रा भवेदेषा रामचन्द्रस्य प्रेयसी ॥५२॥ अंगुष्ठं वाममुद्दण्डितमितरकरांगुष्ठकेनापि बद्धवा । तस्याग्रं पीडयित्वांगुलिभिरपि च ता वामहस्तांगुलीभिः । बद्भवा गाढं हृदि स्थापयतु विमलधीयाहरन्मारबीजं । बिल्वाख्या मुद्रिकैषा स्फुटमिह कथिता गोपनीया विधिज्ञैः ॥ हस्तौ तु विमुखौ कृत्वा ग्रथयित्वा कनिष्ठिके । मिथस्तर्जनिके श्लिष्टे श्लिष्टावंगुष्ठको सथा ।। ५४ ॥ मध्यमानामिके द्वे तु द्वौ पक्षाविव चालयेत् । एषा गरुडमुद्रा स्याद्विष्णो: सन्तोषद्धिनी ॥ ५५ ॥ जानुमध्ये करी कृत्वा चिवुकोष्ठी समाकृती। हस्तौ तु भूमिसंलग्नी कम्पमानी पुनः पुनः ।। ५६ ॥
२०
For Private and Personal Use Only