SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ १० मुद्रानिघण्टुः उसानमुष्टियुगला सम्मुखीकरणी मता । देवताङ्गे षडङ्गानां व्यास: स्यात् सकलीकृतिः ।। २८ ॥ सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्जनी । अवगुण्ठन मुद्रेयममितो भ्रामिता मता ।। २९ ।। अन्योन्याभिमुखाश्लिष्टा कनिष्ठाऽनामिका पुनः । तथैव तर्जनी मध्या धेनुमुद्रेयमीरिता ॥ ३०॥ अमृतीकरणं कुर्यात्तया साधकसत्तमः ।। अन्योन्यग्रथितांगुष्ठा प्रसारित करांगुली ।। ३१ ।। महामुद्रेयमुदिता परमीकरणे बुधः । प्रयोजयेदिमा मुद्रा देवताह्वानकर्मणि ।। ३२ ॥ अङ्गभ्यासक्षमा मुद्रास्तासां लक्षणमुच्यते ॥ ३३ ॥ अनंगुष्ठा ऋजवो हस्तशाखा भवेन्मुद्रा हृदये शीर्षके च । अधोऽङ्गुष्ठा खलु मुष्टिः शिखायां करद्वन्द्वांगुलयो वर्मणि स्युः ।। ३४ ।। नाराचमुष्टयुद्धतबाहयुग्मकांगुष्टत म्युदितोध्वनिस्तु । विष्वक विशक्त: कथिताऽत्रमुद्रा यत्राक्षिणी तर्जनिमध्यमे स्तः ॥ ३५ ॥ नेत्रत्रयमत्र भवेदनामा षडङ्गमुद्रा कथिता विधिज्ञः ॥ ३६ ॥ अङ्गहीनस्य मन्त्रस्य स्वेनैवाङ्गानि कल्पयेत् । वैष्णवानान्तु मुद्राणां कथ्यन्ते लक्षणाण्यथ ॥ ३७ ।। वामंगुष्ठं तु संगृह्य दक्षिणेन तु मुष्टिना । कृत्वोत्तानां ततो मुष्टिमंगुष्ठन्तु प्रसारयेत् ॥ ३८ ॥ वामांगुल्यस्तथाश्लिष्टाः संयुक्ताः सुप्रसारिता: । दक्षिणांगुष्ठसंपृष्टाः शङ्खमुद्रेयमोरिता ।। ३९ ॥ हस्तौ तु सम्मुखौ कृत्वा सन्नतप्रोथितांगुली। तलान्तमिलितांगुष्ठी सुभुग्नौ सुग्रसारितौ ।। ४० ॥ कनिष्ठांगुष्ठको लग्नौ मुद्रषा चक्रसंज्ञिका । २५ For Private and Personal Use Only
SR No.020799
Book TitleDictionaries Tantrashastra
Original Sutra AuthorN/A
AuthorRamkumar Rai
PublisherPrachya Prakashan
Publication Year1984
Total Pages180
LanguageHindi, English
ClassificationBook_Devnagari
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy