________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ नमः
अथ मन्त्राभिधानम्
श्रीभैरव उवाचअ-कार: केशवो विष्णुः श्रीकण्ठोऽपि स्वरादिकः । मस्तकञ्च ललाटच ह्रस्वश्व वरवणिनि ! ॥१॥ मा प्रतिष्ठा मुखं दीर्घ नारायणोऽप्यनन्तकः । इ-कारो माधव: सूक्ष्मो दक्षनेत्रश्च लोचनम् ॥ २ ।। ई-गोंविन्दस्त्रिमूर्तिः स्याद्वामाक्षि कमला कला। माया लक्ष्मी रतिः शान्तिवष्णवी बिन्दुमालिनी॥३॥ उ: शिव: प्रणवं विष्णुर्दक्षकर्णोऽमरेश्वरः !: ऊ-र/शो वामकर्ण: कथितो मधुसूदनः ॥ ४॥ ऋ- सा दक्षनासा च भाव(र)भूतिस्त्रिविक्रमः । ऋ-कारो वामनासा च वामनोद्यदधीश्वरः ॥ ५॥ ल: स्थाणुइंक्षगुल्फस्थो गण्डाख्यः श्रीधरोऽपि च । ल-कारोऽपि हृषीकेशो हरोऽसौ वाम गण्डक:॥६॥ ए-कारो विजया शक्तिभंगसंज्ञाभिधायकः । पद्मनाभो महेशानि ! प्रोक्तो झिण्टीशनायक: ॥ ७॥ ऐ-कारो भौतिकश्चैव दामोदरोऽधराह्वयः । अष्टस्वरोऽपि विज्ञेयो हिमपर्वतकन्यके ! ॥८॥ ओ-कारश्चोर्ध्वदन्तश्च सद्योजातश्च सत्यकः । वासुदेवो महेशानि ! दन्तो मे परिकीत्तितः ॥९॥ औ-कारो मनुराख्यातो दन्तान्तोऽधोरदाह्वयः । सङ्कर्षणोऽति देवेशि ! कथितोऽनुग्रहेश्वरः ॥ १० ॥ अनुस्वारश्च बिन्दुश्च दण्डो दण्डो वियद् विदुः । प्रद्युम्नश्चाक्ररश्चापि शीर्षश्च मरणं प्रिये ! ॥ ११ ॥ विसर्ग: सर्ग आख्यातो विष(प)द्विषममानसः । अनिरुद्धो महासेनः कलाज्ञाऽपि रमापि च ।। १२ ॥
२४
For Private and Personal Use Only