________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वरदातन्त्रोक्तमन्त्रार्थाभिधानम्
है: शिव: कथितो देवि उ भेरव इहोच्यते । परार्थो नादशब्दस्तु बिन्दुर्दुःखहरार्थकः ॥ धर्मबीजेत्रिभित्र कथितस्तव यत्नतः ॥ हूं। गणेशार्थो ग उक्तस्ते बिन्दुर्दुःखहरार्थकः । गं बीजार्थस्तु कथितं तव स्नेहान्महेश्वरि ॥ गं ॥ गो गणेशव्यापकार्थो लकारस्तेज और्मत: । दुःहराथंको बिन्दुगणेशं तेन पूजयेत् ।। ग्लौं । क्ष नृसिंहो ब्रह्म रश्च ऊर्ध्वदन्तार्थकश्च औ । दु:खहरार्थको बिन्दु सिंह तेन पूजयेत् ॥ क्षौं । नामादिवर्ण: सर्वेषां नाम उक्तं स्वयम्भुवा । तेनंवर्थन्तु जानीयादर्थलग्यातु चिन्तयेत् ॥ यथायथं विभक्त्यर्थ मन्त्राथें चिन्तयेच्छिवे । तत्तवर्णादियोगेन संक्षेपात् कथितं त्वयि ।। दुर्गोत्तारणवाच्यः स तारकार्थस्तकारक: । भुक्त्यर्थो रेफ उक्तोऽत्र महामायार्थकश्च ई ।। विश्वमात्रर्थको नादो बिन्दुवुःहरार्थकः । बधूवीजार्थ उक्तोऽत्र तव स्नेहान्महेश्वरि । स्त्री ॥ यत्र बिन्दुद्वयं मन्त्रे एक दुःखहरार्थकम् । अन्यत् सुखप्रदं देवि ज्ञात्वा चार्थं विचिन्तयेत् ॥ यत्र बिन्दुद्वयं मन्त्रे अन्यत् पूर्णार्थकं मतम् । स्वाहामात्रार्थका देवि परार्था वा प्रकीतिता ।। शक्रमाता वषट् प्रोक्ता हरिप्रियार्थका गिरा। सुरा फट् हयग्रीवे विवि बीजं विनिदिशेत ।। यं बीजं वायुवाची स्यात् लमन्द्रं परिकीर्तितम् । अनेकाक्षरबीजे च स्वस्वबीजं स्वनामकम् ॥ एवं ज्ञात्वा महेशानि मन्त्रार्थ परिचिन्तयेत् । एकबीजद्वयं यत्र पृथगथं प्रकल्पयेत् ।। वीप्सार्थ वा महेशानि ज्ञात्वा मन्त्र जपेद्धिया । इति ते कथितो देवि मन्त्रार्थ परमेश्वरि ॥ इति वरदातन्त्रोक्त-मन्त्रार्थाभिधानं
समाप्तम् ।
For Private and Personal Use Only