________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ वरदातन्त्रोक्त मन्त्रार्थाभिधानम्
१०
शिव उवाच । ___ मन्त्रार्थ कथयाम्यद्य शृणुष्व परमेश्वरि । विना येन न सिद्धयेत्त साधन : कोटिशः शिवे ।। आदी प्रसादबीजस्य मन्त्रार्थ शृणु पार्वति । शिववाची हकारस्तु औकारः स्यात् सदाशिवः ।। शून्यं दुःखहरार्थन्तु तस्मात्तन शिवं यजेत् ।। हौं । द दुर्गावाचकं देवि ऊकारश्चापि रक्षणे । विश्वमाता नादरूपः कुर्वर्थो बिन्दुरूपकः ॥ तस्मात्तेनैव बोजेन दुर्गामाराधयेच्छिवे ॥ ९ ॥ क काली ब्रह्म र प्रोक्तं महामायार्थकश्च ई। विश्वमात्रर्थको नादो बिन्दुर्दुःखहरार्थकः ।। तेनैव कालिकादेवीं पूजयेद् दुःखशान्तये ॥ क्रीं ।। हकार: शिववाची स्यात् रेफः प्रकृतिरुच्यते ।। महामायार्थ ई-शब्दो नादो विश्वप्रसूः स्मृतः ।। दु:खहरार्थको बिन्दुर्भुवनान्तेन पूजयेत् ॥ ह्रीं ॥ महालक्ष्म्यर्थक: श: स्याद् धनार्थो रेफ उच्यते । ईस्तुष्टयर्थो परो नादो बिन्दुर्दु:खहरार्थकः ॥ . लक्ष्मीदेव्या बीजमेतत्ते न देवीं प्रपूजयेत् ॥ श्रौं । सरस्वत्यर्थ ऐ-शब्दो बिन्दुर्दु:खहरार्थकः । सरस्वत्या बोजमेतत्ते न वाणी प्रपूजयेत् ।। ऐं। कः कामदेव उद्दिष्टोऽप्यथवा कृष्ण उच्यते । ल: इन्द्र ई तुष्टिवाची सुखदुःखप्रदश्च अं॥ कामबोजार्थ उक्तस्ते तव स्नेहान्महेश्वरि ॥ क्लीं ।।
२०
For Private and Personal Use Only