________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२३]
उपाध्यायश्रीसमयसुन्दरगणिविरचिता कालिकाचार्यकथा ॥
[ रचनासंवत् १६६६ ]
प्रणम्य श्रीगुरुं गद्य-पद्यवार्ताभिरद्भुतम् ।
कालिकाचार्यसंबन्ध, वक्ष्येऽहं शिष्यहेतवे ॥१॥ अत्र पूर्व स्थविरावली व्याख्याता, तत्र श्रीकालिकाचार्योऽपि महाप्रभावकः स्थविरो बभूव, तेन तस्यापि संबन्धः कथ्यते
तत्र कालिकाचार्याः त्रयः स्थविरा जाताः । तन्मध्ये एकः श्रीकालिकाचार्यः श्रीमहावीरदेवनिर्वाणात् सं० ३७६ वर्षे श्रीश्यामाचार्यनामा श्रीप्रज्ञापनासूत्रकर्ता पूर्वविदा वंशे श्रीसौधर्मस्वामित आरभ्य त्रयोविंशतितमः पुरुषो जातः । येन ब्राह्मणीभूतसौधर्मेन्द्राग्रे निगोदविचारः कथितः । अत्र केचिद् वदन्ति---
सिरिवीरजिणंदाओ, तिनिसए वरिसवीसबोलीणे ।
कालयसूरी जाओ, सको पडिबोहिओ जेण ॥२॥ इति गाथादर्शनात् । ३२० वर्षे निगोदविचारकथकः श्रीकालिकाचार्यों जातः । केचिद् वदन्ति
तिसय-पणवीस इंदो, चउसय-तिपम सरस्सई गहिया ।
नवसय-तिनवइ वीरा, चउथिए जो कालगायरिया ॥३॥ इति निर्मूलप्रायगाथादर्शनात् ३२५ वर्षे जातः ॥
केचिद् वदन्ति-चतुर्थी पर्युषणापर्वप्रवर्तक एव निगोदविचारव्याख्याता, यथाश्रुतं बहुश्रुता विदन्तीति (१)। द्वितीयस्तु कालिकाचार्यः श्रीवीरनिर्वाणात् सं० ४५३ वर्षे सरस्वतीभ्राता गर्दभिल्लोच्छेदको बलमित्र-भानुमित्रनुपयोश्च मातुलो जातः । कुत्रापि तुर्यश्चतुर्थी पर्युषणापर्वप्रवर्तकः कालिकाचार्यः स तयोर्मातुलः प्रोक्तोऽस्ति, यद् अस्ति तत् प्रमाणम् (२) । तृतीयस्तु श्रीकालिकाचार्यः श्रीवीरनिर्वाणात् सं०९९३ वर्षे श्रीविक्रमसंवत्सराच सं० ५२३ वर्षे जातः। येन श्रीवीरवाक्यात् पर्युषणापर्व भाद्रपदसुदिपञ्चमीतः चतुर्थ्यामानीतम् (३)। एवं श्रीकालिकाचार्याः त्रयः पृथक् पृथग् जाताः, परं नामसादृश्याद् द्वयोरगे तयोः कालिकाचार्ययोः एकीभूतैव संलग्ना कथा कथ्यते । अतो अत्र पूर्व गर्दभिल्लोच्छेदकश्रीकालिकाचार्यसंबन्धः कथ्यते
अस्मिन् जम्बुद्वीपे भरतक्षेत्रे धारावासं नाम नगरमभूत् । परं तनगरं कीदृशमस्ति ! । यस्मिन् नगरे अनदेश -बङ्गदेश-तिलङ्गदेश-कलिङ्गदेश-वराङ्गदेश-प्रयागदेश-सुयागदेश-मुरुण्डदेश-पुलिन्ददेश-सुरेन्द्रदेश-समुद्रदेश -चित्रकूटदेश-लाटदेश-धाटदेश-नाट्यदेश-विराटदेश-केलिवाटदेश-भाटदेश-वाटदेश-कुण्टदेश-बुटदेशघोडादेश-घाटदेश-मेदपाटदेश-मगधदेश-सोरठदेश-कच्छदेश-गूर्जरदेश-मालवदेश-काश्मीरदेश-काबलिदेशभुटतदेश-बदकसांनदेश-बंगालदेश-कोकणदेश-पञ्चभर्तृदेश--श्रीराध्यदेश-परतकालदेश-हबसीदेश-फिरनीदेश
For Private And Personal Use Only