________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भिक्षोः पादपोञ्छनके रजोहरणनिषद्यायामुक्कुडकत्वेनावस्थितस्य यत् क्रोष्टुकानुगतत्वं तत् स्वस्थानं, यत्तु संनिषद्यायां कल्पे चोपवेशनतः सिंहानुगत्वं वृषभानुगत्वं च तत्परस्थानं / तत्र सिंहानुगस्याचार्यस्य सिंहानुगः सन्नाचार्य आलोचयति एष प्रथमः // 1 // सिंहानुगस्याचार्यस्य धृषभानुगः सन्त्राचार्य आलोचयति / एष द्वितीयः 2 / सिंहानुगस्याचार्यस्य क्रोष्टुकानुगः सन्नाचार्य इति तृतीयः 3 / वृषभानुगस्याचार्यस्य सिंहानुगः सन्नाचार्य आलोचयति एष चतुर्थः 4 / वृषभस्यानुगस्याचार्यस्य वृषभः सन्नाचार्य इति पञ्चमः 5 / वृषभस्यानुगस्याचार्यस्य कोष्टुकानुगः सन्नाचार्य इति षष्ठः 6 / क्रोष्टुकानुगस्याचार्यस्य सिंहानुगः समाचार्य आलोचयतीति सप्तमः 7 / क्रोष्टुकानुगस्याचार्यस्य वृषभानुगः सन्नाचार्य इत्यष्टमः। क्रोष्टुकानुगस्याचार्यस्य क्रोष्टुकानुगः सन्नाचार्य आलोचयतीति नवमः / एतेषां नवानामप्याचार्याणामालोचयतां यथासङ्ख्य| मिति प्रायश्चित्तम् // मासो दुन्निओ सुद्धो चउलहु लहु य अंतिमो सुद्धो। गुरुया लहुया लहुय भेया गणिणो नवगणिमि // 40 // ___गणिन्याचार्ये लोचनागणिनि गणिन आचार्यस्यालोचकस्य भेदा नव ते चानन्तरमेवोपदर्शिता एतेषां च यथाक्रम प्रायश्चित्तमिदं मासो इत्यादि सिंहानुगस्याचार्यस्य पुरतः सिंहानुगतयालोचयत आचार्यस्य प्रायश्चित्तं मासलघु / वृषभानुगतया आलोचयन् शुद्धः क्रोष्टुकानुगतयालोचयन् शुद्धः वृषभानुगस्याचार्यस्य पुरतः सिंहानुगतया आलोचयत आचार्यस्य प्रायश्चित्तं चत्वारो लघवो लघुमासाः, वृषभानुगतया आलोचयतो लघुको मासः, कोष्टुकानुगतयालोचयन शुद्धः क्रोष्टुका For Private and Personal Use Only