________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धो मायालेशस्याप्यभावात् / सा चालोचना आचार्य शिष्यभावे भवति / तत्राचार्य शिष्याणामियं मर्यादा सामाचारी, तामेवाहआयरिए कह सोही सीहाणुग वसभ कोडगाणुगे / अहवा वि सहावेणं निमंसुए मासिया तिमि // 40 // आचार्ये आलोचनार्दाचार्यसमीपे यदा आलोचक आलोचनां प्रयुक्ते तदा कथं शुद्धिरुपलक्षणमेतत् कथमशुद्धिर्वा भवतीति ? उच्यते-आवार्यविविधस्तद्यथा-सिंहानुगो वृषभानुगः क्रोष्टानुगश्च / क्रोष्टुकः शृगालः यत्र यो महत्यां निषद्यायां स्थितः सन् सूत्रमर्थ वाचयति तिष्ठति वा स सिंहानुगः, यः पुनरेकस्मिन् कन्पे स्थितः सन् वाचयति तिष्ठति वा स वृषभानुगः, यस्तु रजोहरण निषद्यायामौपग्रहिकपादप्रोछने वा स्थितो वाचयति तिष्ठति वा स क्रोष्टुकानुग इति / यदाचार्य आलोचना) न प्राप्यते, तदा वृषभस्यापि पुरत आलोचना दातव्या / तदभावे गीतार्थस्य भिक्षोरपीति वृषभभिक्षु अपि प्राचार्यवत् सिंहवृषभक्रोष्टुकानुगत या प्रत्येकं त्रिविकल्पो वाच्यो, / आलोचका अपि त्रिविधास्तद्यथा-आचायों वृषभा भिक्षवश्च / एकैके त्रिविकल्पा:-सिंहानुगाः, वृषभानुगाः, क्रोष्टुकानुगाश्च / नवरं क्रोष्टुकानुगे विशेषः। स यदा निषद्यायां पादप्रोञ्छने वा उत्कुटुको वा आलोचयति, तत्र यद्युत्कुटुकः समालोचयति, ततः शुद्धि निषद्यापादप्रोञ्छनयोस्तु भजना। किमुक्तं भवति? यद्याचार्यो महान्वा वृषभो यदि वा भिक्षुरपि ग्लान आलोचयति आलोचनाण च क्रियते अनुज्ञा तदा शुद्धिः, शेषकालमशुद्धिरिति / अहवावि सभावेणं निमंसुए इति / अथवा स आचार्यो वृषभो भिक्षुर्वा स्वभावेन स्व आत्मीयो भावः स्वभावः स्वशीलमित्यर्थः / तेन क्रोष्टानुगो भवेत् / यदि वा कोऽपि धर्मश्रद्धया निषद्यायामुपवेष्टुनेच्छति तस्य किं निषद्या कर्तव्या ? किं वा न कर्त्तव्या? उच्यते-भवतु यो वा स वा नियमेन तस्य निषद्यां For Private and Personal Use Only