________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छयाईयावमाउ निग्गयाते तवाउ बोधव्वा // जे पुण वहति तवे, ते वदंता मुणेयव्वा / / 262 // मासादीपावाले, जा छम्मासा असंचयं होइ // छम्मासाउ परेणं, संचइयं तं मुणेयव्वं // 293 // ये छेदादिप्रायश्चित्तमापन्नास्ते निर्गता उच्यते, कुतस्ते निर्गता इत्याह, ते तवाउ बोधब्बा, ते निर्गतास्तपसस्तपोर्हात | प्रायश्चित्तात्तु बोधव्या, ये पुनवर्त्तते, तपसि तपोहे प्रायश्चित्ते, ते वर्तमाना ज्ञातव्याः, मासादी इत्यादि-मासादिकं प्रायश्चित्तस्थानमापने मासादारभ्य यावत् पणमासास्तावत् प्रायश्चित्तमसंचयं असंचयसंझं भवति, षण्मासात् षड्भ्यो मासेभ्यः परेण परतो यत् प्रायश्चित्तं तत् संचयितं ज्ञातव्यं, उद्घातानुद्घातविशेषस्तु सुप्रतीत इति न व्याख्यातः संप्रति संचयासंचयेद्घातानुद्घातेषु प्रस्थापनविधि विवक्षुरिदमाह मासाइ असंचइए, संचइए छहिं तु होइ पट्रवणा॥ तेरसपय असंचइए संचये एक्कारस पयाइं // 26 // असंचयिते प्रायश्चित्तस्थाने प्रस्थापना मासादि मासप्रभृतिका, संचयिते पुनः प्रस्थापना नियमतः षड्भिर्मासैर्भवति, प्रस्थापना नाम दानं, उक्तं च निशीथचूर्णी; पट्ठवणा नाम दाणंति, इयमत्र भावना, असंचयिप्रायश्चित्तस्थाने विषये यो मासिकं प्रायश्चित्तस्थानमापन्नस्तस्य मासिकी प्रस्थापना द्वौ मासावापन्नस्य द्वैमासिकी, त्रीन् मासान्नापन्नस्य त्रैमासिकी एवं यावत् षण्मासानापन्नस्य पाण्मासिकी, यः पुनः संचयापनस्तस्य नियमात् पाण्मासिकी प्रस्थापनातत्रासंचये प्रस्थापनायाः पदानि त्रयोदश, संचये एकादश, तत्रा संचये प्रस्थापनायाः पदानि त्रयोदशामूनि / / For Private and Personal Use Only