SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारपत्रस्य पीठिकाऽनंतरः। तृतीयो |विभागः। // 122 // वैद्येन निवारितमिति प्रतिषेधयेत् / अथ कथमपि अनाभोगतस्तद्रोषभयतो वा गृहीतं भवेत् तदा तस्मिन् गृहीते या यतना सा कर्तव्या। किमुक्तं भवति अल्पसागारिकं कथमप्यपसाय विधिना परिष्ठापयेत् / एष गाथासंक्षेपार्थः / साम्प्रतमेनामेव गाथां विवृणोतिपायरिय देसायरियलिंगसंकमोएत्थ होइ चउभंगो। बितिय चरमेसु अन्नं असिवादि गतो करे अन्नं // __ अशिवादिषु कारणेषु समुपस्थितेषु आर्यदेशे आर्यदेशमध्येन लिङ्गेन स्वलिंगेन संक्रमो भवति, / यन्मध्येन यत्र च गन्तव्यं तयोरुभयोरपि देशयोरार्यत्वात् अत्र च प्रागुक्तप्रकारेण चतुर्भङ्गी गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात्तत्र द्वितीयतृतीयचरमेषु भङ्गेषु अशिवादिगतः सन् अन्यत् गृहस्थलिङ्गं यदि वा यस्य देशस्य मध्येन यत्र वा देशे गन्तव्यं तत्र येतिप्रसिद्धाभिक्षुकादयस्तलिङ्गं करोति सम्प्रति परिहरतीति यदुक्तं तद्व्याख्यानयतिपरिहरइ उग्गमादी विहारठाणाय तेसि लिंगीणं / अपुठवेसा गमितो पायरियत्ते तरोइमंतु // परिहरति उद्गमादीन् दोषान् / तथा तेषां लिङ्गिनां यानि विहारस्थानानि तानि च परिहरति / तत्र अपूर्वेषु स्थानेषु गतः सन् यदि यल्लिङ्गं गृहीतं तदागमेषु कुशलो भवति तदा मा केनापि लिङ्गविडम्बक इति ज्ञात्वा प्रग्रह्य इति आचार्यत्वमाचार्यकं तद्रंथव्याख्यातृत्वं करोति, अथेतरस्तेषामागमेष्व कुशल स्ततः स इदं करोति, तदेवाह // मोणेण जंच गहियं, तु कुक्कुडं उभयो वि अविरुद्धं / पच्चयहे उपणामो, जिण पडिमाउ मणे कुणति॥ // 12 // For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy