SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ते यथाच्छन्दाश्चरणेषु गतिषु चैवं ब्रुवाणाः सम्यक्त्वं सम्यग्दर्शनं कथं भूतमित्याह-जिनानां सर्वज्ञानां वचनं जिन| वचनं द्वादशाङ्गं तस्य सारं प्रधानं प्रधानताचास्य तदन्तरेण श्रुतस्य पठितस्याप्यश्रुतत्वात् / पुनः किं विशिष्टमित्याह मुलं प्रथमं कारणं संसारदुःखमोक्षस्य समस्तसांसारिकदुःखविमोक्षस्य तदेवं भूतं सम्यक्त्वं मलिनयित्वा आत्मनो दुर्गतिवर्धका भवन्ति / दुर्गतिस्तेषामेव वदतां फलमिति भावः / इह पूर्वमुत्सवेऽनुत्सवे वा गृह्माणस्य पार्श्वस्थस्य प्रायश्चित्तमुक्तं / तत्र उत्सवप्ररूपणार्थमाह-- सक्कमहादीया पुण पासत्थे ऊसवा मुणेयव्वा // अहछंदे ऊसव्वो पुण, जीए परिसाए कहेइ // पार्श्वस्थ पार्श्वस्थस्य उत्सवा ज्ञातव्याः शक्रमहादयः इन्द्रमहादयः / आदिशब्दात् स्कन्दरुद्रमहादिपरिग्रहः यथाच्छन्दस्य पुनरुत्सवोयस्याः पर्षदःपुरतो यथाच्छन्दः स्वच्छन्दविकल्पितं प्ररूपयति सा पत् ज्ञातव्याः। तदपि च उत्सवभूतायां पर्षदि स्वकीयकुमतप्ररूपणं चतुर्मासषण्मासवर्षेषु कदाचिद्वा करोति / अभीक्ष्णं वा ततः एतेषु स्थानेषु वक्तव्यं तच्च पार्श्वस्थागमानुसारेण ज्ञेयमत आह-- " जउलहउ तह लहगा, चउगुरू तहिं ठाणे जेहिं; ठाणे चउगुरुगा, छम्मासे तत्थउजाणे // जेहियं पुण छम्मासा, तहिं च्छेयं ठाणए मूलं, पासत्थे जह भणियं, अहच्छंदे विवडियं जाणे॥" यत्र पार्श्वस्थस्य मासलघु प्रायश्चित्तमुक्तं तत्र यथाच्छन्दसि चत्वारो लघुकाः यत्र स्थानेचत्वारो लघुकाः तत्र स्थाने For Private and Personal Use Only
SR No.020796
Book TitleVyavahar Sutra Pithika
Original Sutra AuthorN/A
AuthorMalaygiri
Publisher
Publication Year
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy