________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 10 // एएण सुत्त न गयं सुत्तनिवातो इमो उ अव्वत्ते। उच्चारिय सरिसं पुण, परूबीयं पुठवभणियंपि॥ यदेतदनन्तरं परिकर्मणादिकमुक्तं, नैतेन सूत्रगतं व्याख्यातं, जातावेकवचनस्य भावात् / नैतेन त्रीणि सूत्राणि व्याख्यातानि, सूत्राणामन्यविषयत्वात् / तथा चाह-'सुत्तनिवातो इमो उ अब्बते' तु शब्दः पुनरर्थे स च पुनरर्थ प्रकाशयन हेत्वर्थमपि प्रकाशयति, यतोऽयमधिकृतः सूत्रनिपातोऽव्यक्तेऽव्यक्तशब्दविषयः, अव्यक्तो नाम श्रुतेन वयसा चा प्राप्तोऽपरिकर्मितश्च पूर्वभणितं च समस्तं व्यक्तविषयमतोऽव्यक्तविषयत्वं च प्रागुक्तमिति नैतेन प्रागुक्तेन सूत्रत्रयं गतमिति, / अत्राह-यदेतत् प्राग्व्याख्यातं न तेन यदि सूत्रत्रयं गतं तर्हि तदेतत् कुत आगतं सूत्रात्तावन्न भवति / सूत्रस्यान्यविषयत्वात् / अन्यस्माचेत्तर्हि न वक्तव्यमसम्बद्धत्वादत आह-उच्चारिय सरिसमित्यादि परिकर्मणाभिधानं यच पूर्वमाचारदशासु भिक्षुप्रतिमागतमुक्तं / यथा घरसउणी सीह इत्यादि तथा परिचियकालामन्तणेत्यादि च प्रागणितमपि प्ररूपितमुच्चरितस्य सदृशमनुगतमिति कृत्वा किमुक्तं भवति ? एगल्लविहारपडिमं उवसंपन्जित्ताणं विहरित्तए इत्युक्तमत्तच्च सूत्रखंडं व्यक्ते अव्यक्ते च समानं ततो यद्यपि सकलसूत्रोपनिपातोऽव्यक्तविषयस्तदपि यदेतत्सूत्रखण्डं तत् व्यक्तेऽपि समानमिति व्यक्तविषयं परिकर्मणादिमुक्तमित्यदोषः, / यदुक्तमयमधिकृतसूत्रोपनिपातो अव्यक्तविषय इति / तत्राव्यक्ते यथा प्रतिमाप्रतिपत्तिसंभवस्तथोपपादयति श्रागमणे सकारं, कोयं दठूण जायसंवेगो / श्रापुच्छणपडिसेहण देवी संगामतो नीति // // 10 // For Private and Personal Use Only