________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साम्प्रतमन्यदारभ्यते। तत्र परिहारिकापारिहारविषयं सूत्रमाह--बहवे परिहारियाऽपरिहारिया इच्छेजा-एगंतो अभिनिसिज्ज वा अभिनीसिहं वा चेएतए, णो णं कप्पति थेरे अणापुच्छिता एगंतमओ अभिनिसेज वा अभिनीसिहं वा चेइतए; कप्पह हं थेरे आपुच्छित्ता ते एगंतओ अभिनिसेजं वा अभिनिसीहियं वा चेइतवाए, थेराय हंसे (ते) वियरिजा एवं हं कप्पइ अमिनिसेज वा अभिनिसीहियं वा चेतेतए / थेरा एहं नो वितरेजा-एवं हं णो कप्पइ एगतओ अभिणिसेजं वा अभिणिनिसीहियं वा चेतेतए / जो णो थेरे हिं अवितिण्हं अभिणिसिजं वा अमिनिसीहियं वा चेतेति, से संतरा छेदे वा परिहारे वा // 22 // बहवे पारिहारिया इत्यादि / अथ कोऽस्य सूत्रस्य पूर्वसूत्रेण सह सम्बन्धः? उच्यते-इहानन्तरसूत्रे परिहारतप उक्तं. परिहारश्च परिहर्तव्यापेक्षया प्रतिषेध्यानान्तरीयकत्वात् / ततः परिहारग्रहणेन परिहारोऽप्याचिप्तस्तत्र ये परिहारेण चरन्ति तेपरिहारिका इतरे चा पारिहारिकाः। पूर्वसूत्रं च पारिहारिकविषयमतस्तत्प्रकरणानुरोधत इदं पारिहारिकापारिहारिकविषयं सूत्र पठन्ति / अथवा पूर्वसूत्रे पारिहारिकस्य सामाचारी उक्ता / सा च न निरवशेषा किन्तु शेषमवतिष्ठते / तच्चापारिहारिकाणामपि साधारणमतस्तत्प्रतिपादनार्थ पारिहारिकापारिहारिकविषयं सूत्रमुक्तवान् / तथा चाह-- पारिहारियागा उ विणा हवंति इयरेहि वा अपरिहाणी। मेरावसेसकहणं इइमिस्सगसुत्तसंबंधो॥ पारिहारिका उक्तशब्दार्था न तु नैव इतरैरपारिहारिकैविना भवन्ति / परिहारिकस्य अपरिहारिणानान्तरीयकत्वात् / For Private and Personal Use Only