________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥ ३७५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकारेण तुभ्यं दद्दामि । न्यासरूपेण मयि स्थापितं राज्यं न्यासरूपत्वाप्रहाणेनैव पुनर्ददामीत्यर्थः ॥ २ ॥ अयोध्यायां राज्यभोगान् यथाकामं भोक्ष्ये राज्यं त्वमेव परिपालयेत्याकाङ्क्षायामाह -धुरमिति । यद्वा पुनरर्थनपर्यन्तं न्यासधारणे न दोष इत्याशङ्कयाह-पुरमिति । एकाकिना असहायेन, बलीयसा ऋषभेण न्यस्तां पुरं किशोरवत् बालवत्स इव गुरुं भारं वोढुं नोत्सहे ॥ ३ ॥ तर्हि कथमेतावत्पर्यन्तं सोढमित्यत आह- वारीति ।
धुरमेकाकिना न्यस्तामृषभेण बलीयसा । किशोरवद् गुरुं भारं न वोढुमहमुत्सहे ॥ ३ ॥ वारिवेगेन महता भिन्नः सेतुरिव क्षरन् । दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ ४ ॥ गतिं खर इवाश्वस्य हंसस्येव च वायसः । नान्वेतुमुत्सहे राम तव मार्गमरिन्दुम ॥ ५ ॥ यथा चारोपितों वृक्षो जातश्चान्तर्निवेशने । महांश्च सुदुरारोहो महास्कन्धप्रशाखवान् ॥ ६ ॥ शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन् । तस्य नानुभवेदर्थे यस्य हेतोः स रोप्यते ॥ ७ ॥ एषोपमा महाबाहो त्वदर्थं वेत्तुमर्हसि । यद्यस्मान् मनुजेन्द्र त्वं भक्तान् भृत्यान्न शाधि हि ॥ ८ ॥ महता वारिवेगेन भिन्नः अत एव क्षरन् बहिर्निस्सरन् जलसेतुरिव इदं राज्यच्छिद्रं छिद्रवद्राज्यम्, असंवृतं संवरणरहितं सत् दुर्बन्धनं मन्ये, यथा महता वारिवेगेन भिन्नः क्षरन् सेतुर्वारिवे गाइतिनिरोधक तृणपूलशाखापुआदिसंवरणं विना न बद्धुं शक्यते एवं बहुविधच्छिदं राज्यमपि मन्त्र | गोपनादिराजगुणावरणं विना पालितुं न शक्यमिति भावः ॥ ४ ॥ अहमिव भवानपि लोकान् गुणैर्वशी करोत्वित्यत्राह - गतिमिति ॥ ५ ॥ तर्हि ममैवोपो द्वलेन भवानेव राज्यं परिपालयत्वित्याशङ्कय तर्हि तातेन भवत्पोषणं विफलं स्यादित्याह-यथा चेत्यादिश्लोकत्रयेण । अन्तर्निवेशने आरोपितः उप्तः, | प्रकारेण मम अद्दाः तेन प्रकारेण पुनस्तुभ्यं ददामि न्यासरूपेण मयि स्थापितं राज्यं पुनर्ददामीत्यर्थः ॥ २ ॥ त्वमेव राज्यं परिपालयेत्याशङ्कयाह-धुरमिति । एकाकिना असहायेन बलीयसा ऋषभेण न्यस्नां धुरं किशोरीव वत्सतरीव गुरुं भारं वोढुम् अहं नोत्सह इति योजना ॥ ३५ ॥ वंशपरम्परामाप्तराज्यपरिपालनार्थ दशरथेनोत्पाद्य संवर्धितस्य रामस्य सकलगुणसम्पन्नस्याप्यभिषेकपूर्वक प्रजापरिपालनरूपफलाप्रदर्शनात् फलाप्रदर्शकवृक्षौपम्यमाह-यथा चेत्यादिश्लोकत्रयेण सु०-यथा चारोपितः बीजावापादिद्वारा । अन्तनिवेशने मूळस्य भूम्यन्तनिवेशने जाते मूलप्रवेशने जाते वृक्षो महान् जातः मानिसंज्ञां गृहीत्वेयमुक्तिः । महास्कन्धः प्रशाखवान्। " शाखा वेदविभागे च पादपाङ्गेऽन्तिकेऽपि च " इति विश्वात्प्रशाखावानिति यद्यपि वक्तव्यं तथापि अप माषं मधं कुर्याच्छन्दोभनं न कारयेत्' इत्युक्तेर्द्वस्वः । यद्वा महास्कन्धः प्रकृष्टा: शाखा यस्य स प्रशाखः । महास्कन्धः तद्वान् जातः पुष्पितः तारकादिरयम् । यस्य हेतोः येन कारणेन आरोपितः ॥ ६ ॥
For Private And Personal Use Only
टी.पु.का स० १३ ।
॥ ३७५॥