________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कपयो दृश्येरन् तेषां कामरूपित्वेन स्वरूपेणादर्शनेऽपि रूपान्तरेण वा दृश्येरन्, तदपि नास्तीत्यर्थः ॥ २३ ॥ अथेति । अर्थ विलम्बद्देतुम् । “अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु" इति वैजयन्ती ॥ २४ ॥ सदेति । भरद्वाजप्रसादेन सदाफलानिति संबन्धः । प्राप्य वानराः हृष्यन्तीति च शेषः ॥ २५ ॥ तस्य चेति । ससैन्यस्य रामस्य वासवेन एष वरो दत्तः अकालफलित्ववरो दत्तः, तथा सर्वगुणान्वितम्
अथैवमुक्ते वचने हनुमानिदमब्रवीत् । अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम् ॥ २४ ॥ सदाफलान् कुसुमितानू वृक्षान् प्राप्य मधुस्रवान् । भरद्वाजप्रसादेन मत्तभ्रमरनादितान् ॥ २५ ॥ तस्य चैष वरो दत्तो वासवेन परन्तप । ससे न्यस्य तथाऽऽतिथ्यं कृतं सर्वगुणान्वितम् ॥ २६ ॥ निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् । मन्ये वानर सेना सा नदीं तरति गोमतीम् ॥ २७ ॥ रजोवर्षं समुद्धृतं पश्य वालुकिनीं प्रति ॥ २८ ॥ मन्ये सालवनं रम्यं लोलयन्ति प्लव ङ्गमाः ॥ २९ ॥ तदेतदृश्यते दूराद्विमलं चन्द्रसन्निभम् । विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् ॥ ३० ॥ रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना ॥ ३१ ॥ तरुणादित्यसङ्काशं विमानं रामवाहनम् । धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् ॥ ३२ ॥
आतिथ्यं मधुस्रवत्वरूपं भरद्वाजेन कृतम्, अतोऽकालफलित्वं मधुस्रवत्वं च वनस्य युक्तमित्यर्थः ॥ २६ ॥ एवं विलम्बतुमुक्त्वा समीपागमनचिह्नं दर्शयति निस्वन इति । इदानीं वानरसेना गोमती नदीं तरतीति मन्ये, यस्मात् भीमो निस्वन इति भावः ॥ २७ ॥ ततोऽपि सन्निकर्षमाह - रज इति । समुद्भूतं रजोवर्षं पश्य । तस्माद्वालुकिनीं नदीं प्रति यातीति मन्ये ॥ २८ ॥ क्षिप्रं वानरसेनाया अनागमने हेतुमाह - मन्य इति । तस्मात्तस्याः विलम्बः | ॥ २९ ॥ विमानं तु दृश्यत इत्याह- तदेतदिति । पुष्पकं विमानं पुष्पकाख्यं विमानम् ॥ ३० ॥ ३१ ॥ तरुणेति । दिव्यं मनोजवं तरुणादित्यसङ्काशं राम त्वयेति शेषः ॥ २३ ॥ अर्थ विलम्बद्देतुं विज्ञापयन " अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु ॥ " इति वैजयन्ती ॥ २४ ॥ हेतुमेवाह- सदाफलानित्यादि । २५-२७ ॥ रज इति । वालुकिनीं नदीम् ॥ २८ ॥ २९ ॥ तदेतदिति । मनसा ब्रह्मनिर्मितं विश्वकर्मणा मनसा ब्रह्मार्थी निर्मितम् ॥ ३० ॥ ३१ ॥ तरुणेति । एतद्धनदस्य प्रसादेन ब्रह्मवरप्रसादेन, धनदस्य धनदसम्बन्धीत्यर्थः । " परेण तपसा लेने यत्कुबेरः पितामहात् " इति
For Private And Personal Use Only