________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrh.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू. ॥३७॥
S०१३०
अय गङ्गातीरे रामः स्थित इति भावः॥ ५९॥ तत इति । सत्यम् अविरुद्धभङ्गया सत्यत्वेन ज्ञातम् । मनोरथ इत्यनन्तरमितिकरणं द्रष्टव्यम् वाटी.य.का. ६०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनत्रिंशदुत्तरशततमः सर्गः ॥ १२९ ॥ श्रुत्वेत्यादि । परमानन्दं परमानन्दकरम्, वच इति शेषः ॥ १॥ देवतानीति । चैत्यानि चतुष्पथमण्डपान । अर्चन्तु अर्चयन्तु ॥२॥ सूता इत्यादि ततस्तु सत्यं हनुमद्रचो महन्निशम्य हृष्टो भरतः कृताञ्जलिः । उवाच वाणी मनसः प्रहर्षिणी चिरस्य पूर्णः खलु मे मनोरथः॥६०॥ इत्याचे श्रीरामायणे वाल्मीकीये. श्रीमद्युद्धकाण्डे एकोनत्रिंशदुत्तरशततमः सर्गः ॥ १२९ ॥ श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः । हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ॥१॥ दैवतानि च सर्वाणि चैत्यानि नगरस्य च। सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः ॥२॥ मूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा । सर्वे वादित्रकुशला गणिकाश्चापि सङ्घशः। अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् ॥३॥ मरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा। विष्टीरनेकसाहस्राश्चोदयामास वीर्यवान् ॥ ४॥ समीकुरुत निम्नानि विषमाणि समानि च । स्थलानि च निरस्यन्ता नन्दिग्रामादितः परम् ॥५॥ सिञ्चन्तु एथिवीं कृत्स्ना हिमशीतेन वारिणा । ततोऽभ्यव किरन्त्वन्ये लाजैः पुष्पैश्च सर्वशः॥६॥ साश्लोक एकान्वयः । मूताः स्तुतिशीलाः । वैतालिकाः वन्दिनः ॥३॥ रामानु-गणिकाश्चापि सङ्कश इत्यतः परम्-राजदारास्तथाऽमात्याः सैन्याः सेनापणाङ्गनाः। ब्राह्मणाश्च सराजन्याः श्रेणीमुरुषास्तथा गणाः । अभिनिर्यान्तु रामस्य द्रष्टुं शशिनि मुखम् ।। भरतस्य वचः श्रुत्वा दानुनः परवीरहा। विष्टीरनेकसाइखाचोदयामास वीर्यवान ।। इति पाठक्रमः। व्यत्ययस्तु लेखकममादकृतः ॥ ३ ॥ भरतस्येत्यादिश्लोकपञ्चकमेकान्वयम् । विष्टीः भृति विना कर्मकरान् । नन्दियामादितः परम्, अयोध्यापर्यन्तमित्यर्थः। तत इति । मे मनोरथ पूर्ण इत्युवाचेति सम्बन्धः ॥ ६ ॥ इति श्रीमहेश्वर तीर्थ. श्रीरामायणतत्व युद्धकाण्डव्याख्यायाम एकोनविंशदुत्तरशततमः सर्गः ॥१२९॥ श्रुत्वेति । परमानन्द परमानन्दकरम, वचन मिति शेषः ॥१॥ देवतानि कुलदेवतानि । नगरस्य चेत्यानि साधारणदेवतायतनानि ॥२॥ स्तुनिपुराणज्ञाः इति सूतलक्षणरूपं सूतविशेषणम् । वेतालिकाः वंशावलीकीर्तकाः ॥ ३ ॥ विष्टीः भृतिकरान in ॥ स्थूलानि इतिं पाठे-अत्युन्नतप्रदेशान् ॥ ५-८॥
॥19॥
For Private And Personal Use Only