________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
एवं देहनिमित्तमुक्त्वा शाकुनमप्याह-पक्षीति । पक्षी पिङ्गलिका। शाखानिलयः प्रहृष्टः। पुनः पुनश्चोत्तमसान्त्ववादी भूयो भूयो मधुरवादी उत्तरोत्तरमुत्तमसान्त्वस्वरवादी वा । सुस्वागतां शोभनबन्ध्वागमनमिति यावत् । “बन्धुस्वस्वजनास्तमाः" इत्यमरः । वाचं स्वरमुदीरयानः चोदयतीव रामागमनं कथयतीव । यद्वा पूर्वोक्तराघव एवं कर्म । राषवमुपपादयतीवेत्यर्थः। आचार्यास्तु-पक्षावस्य स्त इति पञ्ची गरुत्मान् । भूमि प्रशंसायां च मत्वर्थीयः। तदुक्तम्-"भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुवाइयः" इति । तथाच पक्षी विस्तार्य । पक्षीच शाखानिलयःप्रहृष्टः पुनः पुनश्चोत्तमसान्त्ववादी।सुस्वागतां वाचमुदीरयानः पुनःपुनश्चोदयतीव हृष्टः॥५॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तविंशः सर्गः ॥२७॥ प्रदक्षिणं सञ्चरन् । शाखानिलयः कुसुमितपल्लवितशाखायां दृढतरं स्थितः । आईतरतरुभाग एव शाखात्वव्यपदेशः । प्रदक्षिणभ्रमणम् आईशाखा । वरोहणं दृढतरावस्थानं च शुभशंसीत्यर्थः । प्रहृष्टः तत्र फलभोजनादिना सन्तुष्टः । पुनःपुनश्चोत्तमसान्त्ववादी उत्तरोत्तरं सान्त्ववचनं कुर्वन्निव स्थितः। मा शुचः सद्यः समागमिष्यति ते भर्ता नायमवसरश्शोकस्य इत्येवं सान्त्वयन्निव स्थितः । तदुपरि सुस्वागतां वाचमुदीरयानः। एतावन्मानं न भवति तस्य सन्तापातिरेक इति कथयानिव स्थितः। विरहक्लिष्टायास्सुस्वागतवचनं हिनाम प्रतियोगिनःसन्तापातिशयकथनमेव । उक्तं हि-"तपति तनुगात्रि। मदनस्त्वामनिशं मां पुनर्दहत्येव । गुपयति यथा शशान तथाहि कुमुद्रती दिवसः" इति । पुनः पुनश्चोदयतीव प्रियागमने निश्चिते मजनालंकरणा दिकं किमर्थं न करोषीत्येवं सीतां चोदयतीवेत्युत्प्रेक्षा । दृष्टः, नायिकागमन कालिकहर्षः स्वस्येवेत्येतदैलक्षण्यं हृषिततनूरुहेस्मूचयन्निव स्थितः॥ इदं हि रामायणमुत्तमं काव्यम् । तथाहि-काव्यं तावत्रिविधम्, उत्तमं मध्यममधमं चेति । यत्र वाच्यातिशायिव्यङ्गयं तदुत्तमम् । स एव ध्वनिरित्यु। च्यते । यत्र वाच्यानतिशायिव्यङ्गचं तन्मध्यमं काव्यम् । तदेव गुणीभूतव्यङ्गयमित्युच्यते । यत्र व्यङ्गयमेव नास्ति तदधमम् । तदेव चित्रमित्युच्यते। व्यङ्ग्यं च पदगतं वाक्यगतं प्रबन्धगतं चेति त्रिविधं भवति । एतत्काण्डरूपप्रबन्धेन अनादिभगवत्सम्बन्धातश्चेतनस्योजीवने प्रवृत्तस्याचार्यस्य प्रवृत्तिरभिव्यज्यते। उक्तश्चायमर्थः "ततो रावणनीतायाः" इति श्लोके। अत्रलकपदेन शरीरं योतितम् । एकाक्षीप्रभृतय इन्द्रियाणि । रावणकुम्भकर्णावह कारममकारौ। इन्द्रजित्प्रभृतयः कामक्रोधलोभमोहमदमात्सर्यदम्भादयः । तादृशलङ्कानिरुद्धसीतासदृशश्वेतनः । तस्य भगवज्ञानोपदेष्ट्राचार्यतुल्यो पक्षीति । पक्षी शाखानिलयं शाखास्थनीडं प्रविष्टः । उत्तमसान्त्ववादी उत्तमशान्तस्वरवादी । सुस्वागतो सुष्टु शोभनमागतमित्येवंरूपा वाचमुदीरयानः उच्चरन् ।
For Private And Personal