________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
।
पुनः प्रदेशान्तरान्वेषणमेकोनपञ्चाशे-अथाङ्गद इत्यादि । सह युगपत् ॥ १-५॥ दाक्ष्यम् उत्साहः “दक्ष उत्साहे" इत्युक्तेः । मनसश्वापराजयः धैर्यमित्यर्थः॥ ६॥ वनमेतत् विचीयताम् अविष्यताम् ॥ ७॥ रामानु०-विचयप्रकारमेबाह-खेदमिति । विचिन्वनामिति चिनोलोटि प्रयमपुरुषबहुवचने रूपम्
अथाङ्गदस्तदा सर्वान वानरानिदमब्रवीत् । परिश्रान्तो महाप्राज्ञः समाश्वस्य शनैर्वचः ॥ १॥ वनानि गिरयो नद्यो दुर्गाणि गहनानि च । दयों गिरिगुहाश्चैव विचितानि समन्ततः ॥२॥ तत्र तत्र सहास्माभिर्जानकी न च दृश्यते । तदारक्षो हृता येन सीता सुरसुतोपमा ॥३॥ कालश्च वो महान् यातः सुग्रीवश्चोग्रशासनः । तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः॥४॥ विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम् । विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम् ॥५॥अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयः। कार्यसिद्धिकराण्याहुस्तस्मादेतद ब्रवीम्यहम् ॥६॥ अद्यापितदनं दुर्ग विचिन्वन्तु बनौकसः। खेदं त्यक्त्वा पुनः सर्वनमेतद्रिचीयताम् ॥ ७॥ अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम् । अलं निर्वेदमागम्य नहि नो मीलनं क्षमम् ॥८॥ सुग्रीवः कोपनो राजा तीक्ष्णदण्डश्च
वानरः । भेतव्यं तस्य सततं रामस्य च महात्मनः ॥९॥ लाविचीयतामिति पाठे युष्पाभिरिति शेषः ॥७॥ मीलनं नेत्रमीलनम्, कर्तव्यमकृत्वा तूष्णीभाव इत्यर्थः ॥ ८-१२ ॥
॥१॥२॥ तत्र तत्रेति । सहास्माभिरित्यात्मनि बहुवचनम् । अस्माभिः सह विचितानि, युष्माभिरिति शेषः ॥३॥ कालश्चेति । समयातिक्रमेण मारयिष्यतीति भावः ॥ ४ ॥ तन्द्रीं प्रमीलाम्, निद्रामालस्यमिति यावत् ॥ ५ ॥ किं तत्कार्यसाधकमित्यत आह-अनिर्वेदमिति । मनसश्चापराजयः मनोजय इत्यर्थः ॥ ६ ॥ हे वनौकसः! इदं दुर्ग वनम् अद्यापि विचिन्वन्तु, भवन्त इति शेषः । कथमिति चेत् ! खेदं त्यक्त्वा पुनरेतद्नं विचीयताम्, भवद्भिरिति शेषः ॥ ७॥ अवश्य मिति । निवेदमागम्यालम् कुतः ? मीलनं नेत्रे निमील्यावस्थानम, निरुद्योगमिति यावत् । नः अस्माकम् । न क्षमम् ॥ ८॥ विचयनाभावे बाधा सूचयति-सुग्रीव । सम्-तथा रक्षोऽपहर्ता च सीतायश्चैव दुष्कृती । इति पाठः । रक्षस्मु राक्षसेषु तन्मध्य इति यावत् । अपहर्ता कश्चिद्राक्षसः । यहा रक्षः राक्षसः । अपहर्ता अन्धः कोपि । अत्र च अपहर्तिति विष शरिणतमन्चेति । तयैव दुष्कृति चेति ॥ ३॥
For Private And Personal Use Only