________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. ॥११॥
वस.४१
一路路路基金会全一
तस्येति । तस्य प्रसिद्धस्य ॥ १६ ॥ १७ ॥ रामानु० - ताम्रपर्णी ग्राहजुष्टामिति पाठः ॥ १७॥ १८॥ तत इति । पाण्डयानां पाण्डयराजानाम् । युक्तं शटी.लिक योग्यम् । कवाटम्, अनेन नगरं लक्ष्यते । मुक्तारूपैर्मणिभिः रवैः भूषितम्, तदुत्पत्तिदेशत्वादिति भावः ॥ १९ ॥ अथ महेन्द्रं वर्णयति-तत
तस्यासीनं नगस्याग्रे मलयस्य महौजसम् । द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम् ॥१६॥ ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना । ताम्रपर्णी ग्राहजुष्टां तरिष्यथ महानदीम् ॥१७॥ सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीपशालिनी। कान्तेव युवतिः कान्तं समुद्रमवगाहते ॥१८॥ ततो हेममयं दिव्यं मुक्तामणिविभूषितम् । युक्तं कवाट पाण्ड्यानां गता द्रक्ष्यथ वानराः ॥१९॥ ततः समुद्रमासाद्य संप्रधाार्थनिश्चयम् । अगस्त्येनान्तरे तत्र सागरे विनिवेशितः ॥ २०॥ चित्रनानानगः श्रीमान महेन्द्रः पर्वतोत्तमः । जातरूपमयः श्रीमानवगाढो महार्णवम् ॥ २१॥ नाना विधैर्नगैः सर्वेर्लताभिश्चोपशोभितम् । देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम् ॥ २२ ॥ सिद्धचारणसबैश्च प्रकीर्ण सुमनोहरम् । तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु ॥ २३ ॥ द्वीपस्तस्यापरे पारे शतयोजनमायतः । अगम्यो मानुषैदीप्तस्तं मार्गध्व समन्ततः । तत्र सर्वात्मना सीता मार्गितव्या विशेषतः ॥ २४ ॥ इत्यादिना । मार्गितव्या विशेषत इत्यन्तमेकान्वयम् । ततः पाण्ड्यनगरात् समुद्रमासाद्य अर्थनिश्चयं कर्तव्यसमुद्रलङ्घनाद्यर्थनिश्चयम् । संप्रधार्य । कृत्वा । अगस्त्येन तत्र सागरे अन्तरे अवकाशे निवेशितः । श्रीमान् पुष्पफलादिसमृद्धिमान् । श्रीमान् कान्तिमान् । महेन्द्रोऽस्ति । तं पर्वतम् ।। गोदावरीमिति । अब गोदावरीशब्देन दण्डकारण्यवर्तिगोदावरीखण्ड उच्यते, अता न पुनरुक्तिः ॥ १२-१८ ॥ ततो हेममयमिति । कवाट पाण्डवानां नगरद्वार कबाटम् ॥ १९ ॥ तत इति । अर्थनिश्चयः सम्प्रधाः भवद्भिरिति शेषः । दुर्गप्रदेशत्वादिति भावः । अत्र श्रीशब्दः पुष्पफलादिसमृद्धिपरः । द्वितीयः श्रीशब्दः ॥११॥ शोभापरः ॥ २०-२३ ॥ द्वीप इति । तस्य समुद्रस्यापरे पारे परपारातिरिक्ते आन्तरालिके पार इत्यर्थः ॥ २४ ॥ सा-युवती कान्ता उत्रया यथा दिव्यदकुनैः प्रच्छन्नसर्बस्वाजयवा सती स्वकाम् गच्छति तददियमपि दिब्बलस्थानीयैश्चन्दनथिनः प्रच्छन्नदीपजलादिसावयवा सती स्वकान्तं समुद्रमवगाहते ॥१८॥
For Private And Personal use only