________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
टी.कि.को. ..
वा.रा.भू. शैलादिषु विचेया ।। ६७ ॥ अमर्यादं ग्रामनगरादिमर्यादारहितम्, केवलान्धकारभूतमित्यर्थः ॥ ६८--७० ॥ महेन्द्रति । महेन्द्रकान्ताम् इन्द्रप्रियाम् ।
निपुणेन नैपुण्येन ॥ ७१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने चत्वारिंशः सर्गः ॥४०॥
एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः । अभास्करममर्यादं न जानीमस्ततः परम् ॥ ६८॥ अधिगम्य तु वैदेही निलयं रावणस्य च । मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम् ॥६९॥ ऊ मासान्न वस्तव्यं वसन् वध्यो भवेन्मम। सिद्धार्थाः सन्निवर्तध्वमधिगम्य च मैथिलीम् ॥७०॥ महेन्द्रकान्तां वनषण्डमण्डितां दिशं चरित्वा निपुणेन वानराः। अवाप्य सीता रघुवंशजप्रियां ततो निवृत्ताः सुखिनो भविष्यथ ॥ ७१ ॥ इत्याचे श्रीमद्रामायणे वाल्मी कीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥४०॥
ततः प्रस्थाप्य सुग्रीवस्तन्महदानरं बलम् । दक्षिणां प्रेषयामास वानरानभिलक्षितान् ॥ १॥ नीलमग्निसुतं चैव हनुमन्तं च वानरम् । पितामहसुतं चैव जाम्बवन्तं महाबलम् ॥२॥ सुहोत्रं च शरारिं च शरगुल्मं तथैव च । गजं गवाक्षं गवयं सुषेणमृषभं तथा ॥३॥ मैन्दं च द्रिविदं चैव विजयं गन्धमादनम् । उल्कामुखमसङ्गं च हुता शनसुतावुभौ ॥ ४ ॥ अङ्गदप्रमुखान्वीरान वीरः कपिगणेश्वरः । वेगविक्रमसम्पन्नान् सन्दिदेश विशेषवित् ॥५॥ तेषामग्रेसरं चैव महदलमसङ्गगम् । विधाय हरिवीराणामादिशदक्षिणां दिशम् ॥६॥
अथ दक्षिणदिशि वानरप्रेषणमेकचत्वारिंशे-ततः प्रस्थाप्येत्यादि । अभिलक्षितान् दृष्टापदानान् ॥ १॥ नीलमित्यादि । अत्रोक्तः सुषेणस्तारापितु रन्यः ॥२-४॥ वेगविक्रमसंपन्नप्रेषणे हेतुमाह विशेषविदिति ॥५॥ रामानु-संदिदेश विशेषविदिति पाठः ॥ ५ ॥ तेषामिति । असङ्गगम् अविलम्बगामि, Mअभास्करं सर्यरहितम् अत एव अमर्यादम् ॥६८-७१॥ इति श्रीमहेश्वरतीर्थ श्रीरामायणतत्त्वदीपिकाख्यायो किष्किन्धाकाण्डव्याख्यायां चत्वारिंशः सर्गः ॥ ४०॥
तत इति । अभिलक्षितान् दृष्टापदानान ॥१॥ नीलमित्यादि । अत्रोक्तस्तुणस्तारापितुरन्यः ॥२-५॥ तेषां सहायमाज्ञापयति-तेषामिति । तेषां नीलादीनाम् ॥६॥
॥११८॥
For Private And Personal Use Only