SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir सुहृद्विनीय इति च पाठः ॥१४-१६॥ सोमेत्यादि । देशेति । कार्याकार्यविनिश्चये विषये । देशकालनयैः देशोचितनीतिभिः कालोचितनीतिभिश्चेत्यर्थः । देशकालानुगुणनयप्रवर्तनं कर्तव्यमित्यर्थः।।१७-१९॥ नदीमित्यादि रजताकरामित्यन्तमेकं वाक्यम् । प्राप्येति शेषः। ततस्ततः सीतां मृगयद्भिर्भवद्भिः । त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम् । त्वं हि जानासि यत्कार्य मम वीर न संशयः ॥ १३॥ सुहृद् द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित् । भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः ॥१४॥ एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम् । अब्रवीद्रामसान्निध्ये लक्ष्मणस्य च धीमतः॥ १५॥ शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरः ॥ १६॥ सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम । देशकालनयैर्युक्तः कार्याकार्यविनिश्चये ॥ १७॥ वृतः शत सहस्रेण वानराणां तरस्विनाम् । अधिगच्छ दिशं पूर्वी सशैलवनकाननाम् ॥ १८॥ तत्र सीतां च वैदेहीं निलयं रावणस्य च । मार्गध्वं गिरिशृङ्गेषु वनेषु च नदीषु च ॥ १९॥ नदी भागीरथीं रम्यां सरयूं कौशिकी तथा । कालिन्दी यमुना रम्यां यामुनं च महागिरिम् ॥ २०॥ सरस्वती च सिन्धुं च शोणं मणिनिभोदकम् । महीं कालमहीं चैव शैलकाननशोभिताम् ॥ २१ ॥ ब्रह्ममालान्विदेहांश्च मालवान काशिकोसलान् । मागधांश्च महा ग्रामान पुण्ड्रान्वङ्गांस्तथैव च । पत्तनं कोशकाराणां भूमिं च रजताकराम् ॥२२॥ भागीरथ्यादिकं प्राप्य एतत्पूर्वोक्तं सर्व विचेतव्यमिति संबन्धः। अत्रेदमवधेयम्-शरावती नाम काचिनदी हिमवद्विन्ध्यमध्यदेशे वलयाकारेण प्रवहति ।। तदपेक्षया प्राचीदिगिदानी विचेयत्वेनोच्यते, नतु किष्किन्धापेक्षया नापि मेर्वपेक्षयेति । यामुनं महागिरि यमुनासंबन्धिनं पर्वतम् ॥२०॥ मह्यादयो । मिति । अस्मिन कायें वानरप्रेषणरूपकार्ये । सुहृहितीयः सुहृल्लक्ष्मणापेक्षया द्वितीयत्वम् । नदी भागीरथीमित्यारभ्य भूमिं च रजताकरामित्यन्तन प्राप्येति । शेषः । ततः सीतां मृगयद्भिर्भवद्भिः भागीरथ्यादिकं प्राप्य एतत्पूर्वोक्तं सर्व विचेतव्यमिति सम्बन्धः । ननु मेरोः पूर्वदिगवस्थितोदयाचलपर्यन्तमन्वेष्टुं प्रेषितान वानरान् प्रति मेरोदक्षिणदिगवस्थितभागीरथ्यादिनदीपर्वताद्यन्वेषणविधानं कयमुपपद्यत इति चेत, हेमाचलविन्ध्यमध्यदेशवायर्यावर्तापेक्षया प्राच्यादि। विभागो विवक्षित, नतु मेर्वपेक्षया स्वावस्थितमाल्यवदपेक्षया वेति न दोषः ॥१२-२०॥ महीकालमह्यो नद्यो । २१॥ कोशकाराणां स्वर्णकाराणाम् ॥२२॥२३॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy