SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 11 या.रा.भ. यां नियतिं गतः सा नियतिगतिः श्रेष्ठा । तत्तस्मात्कारणात् परितापेनालम् । सद्गति प्राप्तं प्रति शोको न कार्यः । प्राप्तकालम् एतत्कालोचितम् । टी.कि.का. उपास्यताम् अनुष्ठीयताम् ॥ ११॥ गतचेतसम्, दुःखितमिति यावत् ॥ १२॥ कुरु त्वमस्येत्यर्धमेकं वाक्यम् ॥ १३॥ तारेत्यादि । वालिनो म दहनं प्रति ताराङ्गदाभ्यां सहितः सन् । बालिसंस्कारकारणात् वालिसंस्कारार्थम् । चन्दनादीनि काष्ठानि समाज्ञापय । यच्चात्र समनन्तरं मरणा। वचनान्ते तु रामस्य लक्ष्मणः परवीरहा । अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम् ॥ १२॥ कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम् ॥ १३ ॥ ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति । समाज्ञापय काष्टानि शुष्काणि च बहूनि च ॥ १४ ॥ चन्दनादीनि दिव्यानि वालिसंस्कारकारणात् । समाश्वासय चैनं त्वमङ्गदं दीनचेतसम् ॥१५॥ मा भूर्वालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम् । अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च । घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम् ॥१६॥ त्वं तार शिविका शीघ्रमादायागच्छ संभ्रमात् । त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः ॥१७॥ सज्जीभवन्तु प्लवगाः शिविकावहनोचिताः । समर्था बलिनश्चैव निहरिष्यन्ति वालिनम् ॥१८॥ एवमुक्का तु सुग्रीवं सुमित्रानन्दवर्द्धनः । तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा ॥ १९॥ लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसः। प्रविवेश गुहां शीघ्रं शिविकासक्तमानसः ॥ २०॥ आदाय शिविका तारः स तु पर्यापतत्पुनः ॥२१॥ वानरैरुह्यमानां तां शरैरुदहनोचितः । दिव्यां भद्रासनयुतां शिविका स्यन्दनोपमाम् ॥ २२ ॥ नन्तरं यदानेतव्यमस्ति तत्सर्वमङ्गदः समानयेदित्यर्थः ॥ १४-१६ ॥ त्वामति । त्वरा गुणवती अस्मिन्काले विशेषतो युक्ता ॥ १७॥ सनीभवन्विति । ये निहरिष्यन्ति ते सजीभवन्त्विति योजना । निहरिः शववहनम् ॥ १८॥ १९॥ गुहां किष्किन्धाम् ॥२०॥२१॥ वानरेरित्यादि। समाज्ञापयेति । वालिसंस्कारकारणात काष्ठानि समाज्ञापय, काष्ठानयनार्थ समाज्ञापयेत्यर्थः । वालिसंस्कारकारणात अङ्गदच समाश्वासयेति सम्बन्धः गतचेतसमिति पाठे-गतचेतसम् इतिकर्तव्यतामूढम् । अनन्तरं यदानेतव्यं तदानयेति सम्बन्धः ॥ १४-१६ ॥ त्वमिति । सम्भ्रमाद्वेगात् । गुणवती त्वरा अस्मिन् काले विशेषतो युक्ता हीति सम्बन्धः ॥ १७ ॥ सजीभवन्विति । ये निहरिष्यन्ति ते सज्जीभवन्त्वित्यर्थः ॥ १८-२१ ।। दिव्यामिति । भद्रासनयुता For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy