________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भ. ॥७२॥ ॐ
www.kobatirth.org
चित्प्रेरणे च नेश्वरः । किंतु स्वभावे वर्तते स्वभावाधीनो वर्तते लोकः । तत्र हेतुमाह तस्येति । कालः तस्य परायणं गतिः । अत्र स्वभावनियति कालादिशब्दैरीश्वर एवाभिधीयते । अन्यथाऽनेकराजत्वापत्तेः । श्वेताश्वतरश्रुतिश्व " स्वभावमेके कवयो वदन्ति " इत्यादिकैवमाह ॥ ५ ॥ न काल इति । कालः ईश्वरः । कालम् आत्मानम् । नात्येति नातिक्रामति । सः स्वाधीन एव न तु लोकवत् कस्यचित्परतन्त्रः । " न चास्य कश्चि जनिता न चाधिपः” इति श्रुतेः । न कालः परिहीयते न नश्यति । इदमुपलक्षणम् । षड्भावविकाररहित इत्यर्थः । “अपक्षयविनाशाभ्यां परिणामर्द्धि
न कालः कालमत्येति न कालः परिहीयते । स्वभावं च समासाद्य न कश्चिदतिवर्तते ॥ ६ ॥
न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः । न मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः ॥ ७ ॥
Acharya Shri Kailassagarsun Gyanmandir
जन्मभिः । वर्जितः शक्यते वकुं यः सदास्तीति केवलम् । ” इति युक्तम् । स्वस्मिन् भवतीति स्वभाव ईश्वरः । वाशब्दोऽवधारणे । स्वभावमासा यैव वर्तते न तु कश्चित्तमतिवर्तते । निरङ्कुशः स्वतन्त्रः । स्वकृतां व्यवस्थां स्वयमपि नातिवर्तते । तत्परतन्त्रोऽनीशः किमुतेति भावः ॥ ६ ॥ पुनरपी श्वरस्य स्वातन्त्र्यमुपपादयति-न कालस्येति । कालस्येश्वरस्य । बन्धुत्वं नास्ति, पक्षपातो नास्तीत्यर्थः । हेतुश्च नास्ति, वशीकरणोपायश्च नास्ति । तत्प्रसादं विना स्वयत्नेन वशीकर्त्तुं न शक्यते इत्यर्थः । न पराक्रमः तज्जयहेतुपराक्रमपि नास्ति । पुरुषपराक्रमस्य स न बिभेति इति भावः । न मित्रज्ञातिसंबन्धः न सुहृत्सगोत्रसंबन्धः । अपराधिषु दण्डधरत्वमुक्तम् । “ एष सेतुर्विधरण एषां लोकानामसंभेदाय ” इति श्रुतेः । अतः कारण स्वभावे काले वर्तते परतन्त्रतया वर्तते, अतस्तस्य कालः परायणम् इष्टप्रापकत्वेनानिष्टवारकत्वेन च परमप्राप्यमित्यर्थः ॥ टी०-किमनया कालादृष्टकल्पनया प्राणिन एवा न्योन्यकर्तारः कारयितारश्च भवन्तीत्यत आह-न कर्तेति ॥ १॥ न काल इति । कालः महाकालः कालं प्राणिनां सुखदुःखप्रापकत्वेन दिवमपक्षमासत्र्त्वादिरूपमौपाधिकं कालम् नात्येति नातिक्रामति । यस्मिन् काले जन्तुना सुखं दुःखं वा भोक्तव्यं तमतिक्रम्य कालान्तरेण भोजयितुं न समर्थ इत्यर्थः । न कालः परिहीयते न न्यूनतां प्राप्नोति । स्वभावं कालं समासाद्य कश्चिन्नानिवर्तते । वाशब्दोऽवधारणे। निरङ्कुशस्वतन्त्रकालः स्वकृतां व्यवस्थां स्वयमपि नातिक्रामति । तत्परतन्त्रोऽन्यः किमुतेति भावः ॥ ६ ॥ कालः केनापि हेतुना वशीकतु न शक्य इत्याह-न कालस्येति । कालस्य पुरुषेण सह वशीकरणहेतुभूतं बन्धुत्वं नास्ति । तथा वशीकरण देवमित्रज्ञातिसम्बन्धोऽपि नास्ति । न हेतुः वशीकरणोपायभूतः पुरुषकृतोपकारादिर्नास्ति। न पराक्रमः वशीकरणोपायः पुरुषकृतः पराक्रमोपि नास्ति । अतः कारणं
For Private And Personal Use Only
टी.कि. का. स० २५
॥७२॥