________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धनुर्विना केवलवाणेन एकं सालं विध्यतीत्यर्थः । यद्वा वेद्धुं शक्तः नतु कदाचित्तथा कृतवानिति घटत इति पदेन व्यज्यते । एवमुत्तरत्रापि योज्यम् । यद्वा स्वजातिविरुद्धत्वेन युद्धे धनुर्ग्रहणाभावेपि लीलार्थं धनुरस्तीति ध्येयम् ॥ ६७ ॥ ६८ ॥ तथेति । कस्मिन्निति । मुहूर्तेन चतुःसमुद्रगमने उत्क्षिप्त पर्वत
एतदस्यासमं वीर्यं मया राम प्रकीर्तितम् । कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ॥ ६८ ॥ तथा ब्रुवाणं सुग्रीवं प्रहसँलक्ष्मणोऽब्रवीत् । कस्मिन् कर्मणि निर्वृत्ते श्रद्दध्या वालिनी वधम् ॥ ६९ ॥ तमुवाचाथ सुग्रीवः सप्त साला निमान् पुरा । एवमेकैकशो वाली विव्याधाथ स चासकृत् ॥ ७० ॥ रामपि दारयेदेषां वाणेनैकेन चेदद्रुमम् । वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम् ॥ ७१ ॥ हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण । उद्यम्याथ प्रक्षिपे चेत्तरसा द्वे धनुःशते ॥७२॥ एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम् । ध्यात्वा मुहूर्त काकुत्स्थं पुनरेव वचाब्रवीत् ॥ ७३ ॥ शूरश्च शूरघाती च प्रख्यातवलपौरुषः । बलवान् वानरो वाली संयुगेष्वपराजितः ॥ ७४ ॥ दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि । यानि सञ्चिन्त्य भीतोऽहमृश्यमूकं समाश्रितः ॥ ७५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
शिखरग्रहणे दुन्दुभिकायोत्क्षेपणे सालभेदने वेत्यर्थः ॥ ६९ ॥ तमिति । पुरा वाली इमान् सप्त सालान् विव्याध । अथ च अनन्तरमपि एवमेकैकशः असकृद्विव्याधेति योजना । यद्वा स वाली एवंविधानिमान् सप्त सालान् एकैकशः पुरा विव्याध अनन्तरमप्यसकृद्विव्याध ॥ ७० ॥ राम इति । एषां 1 मध्ये एकं द्रुमम् एकेन वाणेन यदि विदारयेत् तदा तादृशं विक्रमं दृष्ट्वा वालिनं निहतं मन्ये ॥ ७१ ॥ उद्यम्य प्रकोष्ठेनोत्क्षिप्य । द्वे धनुःशते धनुः शतद्वयदूरम् । धनुर्नाम चतुर्हस्तमानम् । “ किष्कुः स्यादवटो हस्तश्चतुर्विंशतिरङ्गलः । चतुर्हस्तो धनुर्दण्डो धनुर्धन्वन्तरं युगम् ॥” इति वैजयन्ती एवं सुग्रीवस्तमुवाचेति पूर्वेणान्वयः ॥ ७२ ॥ रामानु० -उद्यम्याथ प्रतिषेचेदिति पाठः ॥ ७२ ॥ एवमविश्वासकरणे सुद्धदुर्मनायेतेत्यालोच्य यथा रामः तमिति । पुरा स वाली। इमान् पुरतः स्थितान् सप्त सालान् । एकैकशः एकमेकं विव्याध । अथ च अनन्तरम् । एवं पूर्वोक्तप्रकारेण असकृद्विव्याधेति सम्बन्धः एतेषु सालेषु एकं पूर्व भित्त्वा तत्र खानितं शरं समुद्धृत्य तस्मिन् रन्ध्रे पुनरन्यं शरं निधाय तमपि समुद्धृत्य तथा अन्यं विद्ध्वा एवमसकृदेतान छिद्रीकृतवानिति
१२६
For Private And Personal Use Only