SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्वोर्बन्धनं ययोस्तौ बाहुबन्धनौ अंसावित्यर्थः ॥ १७ ॥ विरूपं विषमरूपं यथा येन प्रकारेण प्राप्तं तत्कारणं तत्त्वतस्तव शंसतो मे सकाशाच्छृणु । अस्मिन् सर्गे अष्टादश श्लोकाः ॥ १८ ॥ इति श्रीगोवि० श्रीरामा० रत्नमेख • आरण्यकाण्डव्याख्याने सप्ततितमः सर्गः ॥ ७० ॥ अथ कबन्धः स्ववृत्तान्त स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम् । दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ॥ १७ ॥ विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा । तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव ॥ १८ ॥ इत्यार्षे श्रीरामायणे वाल्मीकी आदिकाव्ये श्रीमदारण्यकाण्डे सप्ततितमः सर्गः ॥ ७० ॥ पुरा राम महाबाहो महाबलपराक्रम । रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम् । यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः ॥ १ ॥ सोहं रूपमिदं कृत्वा लोकवित्रासनं महत् । ऋषीन्वनगतान् राम त्रासयामि ततस्ततः ॥२॥ ततः स्थूलशिरा नाम महर्षिः कोपितो मया । सञ्चिन्वन् विविधं वन्यं रूपेणानेन धर्षितः ॥ ३ ॥ तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना । एतदेव नृशंसं ते रूपमस्तु विगर्हितम् ॥ ४ ॥ कथनपूर्वकं स्वशापमोक्षाय स्वशरीरदद्दनमर्थयते एकसप्ततितमे पुरेत्यादिसार्धश्लोक एकान्वयः । अचिन्त्यम् अचिन्त्यवैभवम् ॥ १ ॥ सोहमिति । सुन्दर रूपोहम् । रूपं शरीरं लोकवित्रासनं क्रूरं कृत्वा परिगृह्य ततस्ततः तत्र तत्र ऋषीन् त्रासयामि अत्रासयम् ॥२॥ विविधं वन्यं सञ्चिन्वन् स्थूलशिराः धर्षितः अपहृतवन्यः तेन कोपितश्च ॥ ३ ॥ एवंविधं मे रूपं प्रेक्ष्य घोरशापाभिघायिना तेन ऋषिणा नृशंसं गर्हितम् एतदेव रूपं ते अस्त्वित्यहमुक्तः ॥ ४ ॥ तब मोक्षो भविष्यतीत्येवंरूपं वचनं स्मरन् ॥ १६॥ बाहुबन्धनौ बाहुपाशौ ॥ १७॥ विरूपं विकृतम् ॥ १८॥ इति श्रीमहेश्वरतीर्थविरचितायाँ श्रीरामायणतत्त्वदीपिका ख्यायामारण्यकाण्डव्याख्यायां सप्ततितमः सर्गः ॥ ७० ॥ पुरेति । अचिन्त्यम् अचिन्त्यवैभवम् ॥ १ ॥ सोऽहं पूर्वोक्तविशेषणविशिष्टोहम् । इदं रूपं इदानीं विद्य मानराक्षसरूपं कृत्वा ॥ २ ॥ विविधं विचिन्वन् सम्पादयन् स्थूलशिरा नाम ऋषिः मया कर्त्रा अनेन रूपेण इदानीं विद्यमानराक्षसरूपेण करणेन धर्षितः तिर स्कृतस्सन् कुपितोऽभूदिति शेषः ॥ ३ ॥ घोरशापाभिधायिना घोरशापभाषणशीलेन ऋषिणा । नृशंसं धातुकम् । विगर्हितं जुगुप्सितम् । एतद्रूपमेव अस्त्विति स॰—अचिन्त्यम् अचिन्त्यमिव । सोमस्य चन्द्रस्य रुद्रस्येत्यप्यर्थः । यथा तेषां वपुः तथा ममापि रूपमासीदिति पूर्वेण सम्बन्धः ॥ १ ॥ सोहम् एतादृशोथ लोकविप्रासनम् इदं रूपं राक्षसरूपं वैमवेन कृत्वा वासयामीति सम्बन्धः ॥ २ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy