________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू. ॥१६॥
वर्तिनां लोकं प्रामुहीत्यर्थः । तथा च नृसिंहपुराणे “ मलते मरणं यस्मात् " इत्यादि । ननु भगवता रामेण तिरश्चो जटायुषः संस्कारकरणं कथमिति चेत् । “न शूद्रा भगवद्भक्ताः" इत्यत्र शूद्रशब्दस्योपलक्षणार्थत्वाद्भगवद्भक्तानां सर्वप्राणिनां मोक्षाधिकारस्य गम्यमानत्वाच्च युक्तमेवेदमिति ज्ञेयम् । नन्वेवं सति जटायुषो मोक्षपद टा.आ.का. वादामस्य परमात्मत्वं प्रतीयते । " त्वं गतिः परमा देव " इत्यादिना बालकाण्डे "स हि देवैरुदीर्णस्य" इत्यादिना युद्धकाण्डे " सीता लक्ष्मीर्भवान् विष्णुः" इत्या स०६८ दिना श्रीभागवते च श्रीरामस्य परमात्मत्वं स्फुटमुक्तम् । एवं समस्तकल्याणगुणाकरस्य श्रीमन्नारायणस्य रावणादिवधरूपलोकहितार्थं स्वयमेव दशरथभवनेऽवती । स्य सीतामुद्दिश्य विलापः कथमिति चेत् । सत्यम् , तथापि न दोषः । “व्यसनेषु मनुष्याणां भृशं भवति दुःखितः । निश्चितापि हि मे बुद्धिर्वनवासे दृढव्रता । भरतलेह)
एवमुक्का चितां दीप्तामारोप्य पतगेश्वरम् । ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः॥ ३१ ॥ रामोथ सहसौमित्रिर्वनं गत्वा स वीर्यवान् । स्थूलान् हत्वा महारोहीननु तस्तार तं द्विजम् ॥ ३२॥
रोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः । शकुनाय ददौ रामो रम्ये हरितशादले ॥ ३३ ॥ संतप्ता बालिशीक्रियते पुनः । सीताहरणजं दुःखं न मे सौम्य तथागतम् । यथा विनाशे गृध्रस्य मत्कृते च परंतप ।" इत्यनेन प्रकारेण सर्वेश्वरस्याप्याश्रितवत्सलत्वा । हुःखितानाश्रितानाकलय्य दुःखेन स्वयमपि दुःखित इति वा भाति । तेषां दुःखमपनयति चेति ऋषेरभिप्राय इति वेदितव्यम् । शुकादयस्तु-" मावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः। " इत्यादिप्रकारेण श्रीरामस्य दुःखाभावमेव वर्णयन्ति । एवमन्यत्राप्येवंविधविषये परिहारो द्रष्टव्यः ॥ २९ ॥ ३० ॥ दीप्तां दीपनाम्,ि स्वबन्धुमिवेत्यनेन मन्त्रपूर्वकत्वं दाहस्योच्यते ॥ ३१ ॥ राम इति । महारोहीन् महामृगान् । तान् द्विजमनु जटायुषमुद्दिश्य हत्त्वा तस्तार पिण्डदानार्थ दर्भानास्तृतवान् ॥ ३२॥ रोहीति । उत्कृत्य उद्धृत्य । पेशीकृत्य पिण्डीकृत्य । हरितशादले नवीनतृणास्तृतप्रदेशे। शकुनाय स्वस्वरूपांशे माययावृतज्ञान इति प्रलपता मुखं ध्वस्तम्, शोकादि तु नटनमित्युक्तमेवासकृत् । तदुक्त-"संस्कारमकरोत्तस्य रामो ब्रह्मविधानतः । स्वपदं च ददौ तस्मै सोपि रामप्रसादतः ॥ हरेस्तामान्यरूपेण प्रयपो परमं पदम् ॥” इति जटायुर्व प्रक्रम्य पाझे । एतेन तिरबामपि स्नेहादिना देहादि युक्तमिति ध्वनितम् ॥१६॥ सारूप्यमुक्तिलाभश्चोक्तः । मया मद्रूपेण सामान्यहरिरूपेण ॥२९-३१॥ राम इति । स्थूलान् हत्वा महारोहीननुतस्तारतं द्विजमिति । ईकारान्तत्वमार्षम् । महारोहीन, महामृगान् । हत्वा तं गृध्रम् अनु उद्दिश्य तस्तार निरवपत् दर्भानास्तीर्य मांसपिण्डप्रदानं कृतवानित्यर्थः ॥ ३२ ॥ एतदेव विशदयति-रोहीति । रोहिमांसानि
For Private And Personal Use Only