________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagersun yanmandir
न चेदिति । प्राप्तश्चतुर्थोपायकाला यस्मिन् कणि तत्तथा ॥ १५ ॥ एतदेव स्पष्टयति--शीलनति । समुत्पादय, विवक्षितकार्यमिति शपः । समुत्सादयति पाठे-लोकानिति शेषः । एवं लक्ष्मणप्रसादनेन रामकोपशान्तिप्रपञ्चनादावणाराधिततत्पक्षपातिरुदसङ्कल्पाद्रामकापा भग्न इति वदन् । मूर्ख इत्यवगन्तव्यः ॥१६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषण रत्नमखलाख्याने आरण्यकाण्डव्याख्याने पञ्चपष्टितमः सर्गः ॥ ६९ ॥
न चेत्साम्ना प्रदास्यन्ति पत्नी ते त्रिदशेश्वराः । कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि ॥ ५ ॥ शीलेन । साम्ना विनयेन सीता नयेन न प्राप्स्यसि चेन्नरेन्द्र । ततः समुत्पादय हेमपुडैर्महेन्द्रवजप्रतिमैः शरोधैः ॥ १६ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चषष्टितमः सर्गः॥६५॥ तं तथा शोकसन्तप्तं विलपन्तमनाथवत् । मोहेन महताविष्टं परिघूनमचेतनम् ॥३॥ ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः। रामं सम्बोधयामास चरणौ चाभिपीडयन् ॥२॥ महता तपसाराम महताचापि कर्मणा। राज्ञा दशरथेना सिलब्धोऽमृतमिवामरैः॥३॥ तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः। राजा देवत्वमापन्नो भरतस्य यथा श्रुतम्॥४॥
एवं लक्ष्मणो राममाश्वास्य पुनर्वक्तव्यांश ज्ञापयति षट्षष्टितम-त तथेत्यादिश्लोकद्वयमेकान्वयम् । परियूनं परिंदवनं प्राप्तम् , परिशोचन्तमित्यर्थः । M"च्छोः शूडनुनासिके च" इत्यूर् । “दिवोऽविजिगीषायाम्" इति निष्ठानत्वम् । अचेतनम् अस्वस्थचित्तम् । सम्बोधयामास ज्ञापयामास । अभि पीडयन् उपसंगृह्णन् ॥१॥२॥ महता तपसा कायक्लेशेन व्रतोपवासादिना । महता चापि कर्मणा अश्वमेघपुत्रकामेष्टिप्रभृतिकर्मणा । राज्ञा दशरथेन "राजा लोकस्य रञ्जनात्" अनेन मन्त्रद्रव्यक्रियालोपाभावेनाधिकारिणा कृतत्वमुच्यते । अमृतमिव तद्वत् भोग्यत्वं यत्नसाध्यत्वं चोच्यते । अमरैः | अनेकसुरकृतयत्नः एकेन कृत इति गम्यते ॥३॥ तवेति । एक्कारेण इतरपुत्रव्यावृत्तिः । तवैव गुणैर्बद्धः त्वद्गुणैकपरवशः महीपतिः राजा न तु, इति श्रीमहेन्चरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां पञ्चषष्टितमः सर्गः॥६५॥ तमित्यादि । परियूनं परिदेवनं प्राप्त शोचन्तमित्यर्थः। "दिवोऽविजिगीषायाम्" इति निष्ठानत्वम् । " च्लोरशूडनुनासिके च" इत्यूठ् । यद्वा परिघुनं क्षीणम् । अचेतनम् अस्वस्थचित्तम् ॥१॥२॥ महतेति । तपसा पुत्रकामनया कृतेन तपसा । कर्मणा पुत्रकामेष्टचादिरूपेणेत्यर्थः ॥३॥ तवेति । देवत्वमापनःस्वर्ग गतः। भरतस्य यथा श्रुतम्, मुखादिति शेषः । यथा यथावच्छूत
For Private And Personal Use Only