SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir 664 SANA इत्युक्तरीत्या सर्वकालेपि सर्वजनानुकूलमित्यर्थः ॥ ३३ ॥ महाबाहुमिति । सिंहवाद्विकान्तं पराक्रमयुक्तं सगर्वमिति यावत् । तथा गच्छतीति सिंह विक्रान्तगामिनम् । सिंहसङ्काशं पराक्रमे सिंहतुल्यम् । नृसिंह पुरुषश्रेष्ठम् ॥३४॥ पूर्णेति । राजवत्सं राजकुमारम् ॥३५॥ एवं स्वभर्तुरतिशयमुक्त्वा तस्य हीनत्वमाह-त्वमित्यादिना । त्वं तु जम्बुकः गोमायुः । निगीर्याध्यवसानं तथा सिंहीमित्यत्रापि । आदित्यस्य प्रमेव रामस्याविनाभूताऽहं महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् । नृसिंहं सिंहसङ्काशमहं राममनुव्रता ॥३४॥ पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम् । पृथुकीर्ति महात्मानमहं राममनुव्रता ॥ ३५॥ त्वं पुनर्जम्बुकः सिंहीं मामिच्छसि सुदुर्लभाम् । नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ ३६॥ पादपान काञ्चनान नूनं बहून् पश्यसि मन्दभाक् । राघवस्य प्रियां भार्या यस्त्वमिच्छसि रावण ॥ ३७॥ क्षुधितस्य च सिंहस्यमृगशवोस्तरस्विनः।आशीविषस्य वदनादंष्ट्रामादातुमिच्छसि ॥३८॥ मन्दरं पर्वतश्रेष्ठं पाणिनाहर्तुमिच्छसि । कालकूट विष पीत्वा स्वस्तिमान गन्तु मिच्छसि ॥३९॥अक्षि सूच्या प्रमृजसि जिह्वया लेक्षि चक्षुरम् । राघवस्य प्रियां भार्या योऽधिगन्तुं त्वमिच्छसि ॥४० त्वया स्पष्टुं न शक्येत्यर्थः ॥ ३६॥ पादपानिति । आसन्नमरणाः वृक्षान् स्वर्णमयान् पश्यन्तीति प्रसिद्धिः । मन्दभाक मन्दभाग्यः । यद्वा । मन्दं क्षीणम् आयुरादिकम् भजतीति मन्दभाक् । मदभिलाषयुक्तस्त्वं सद्यो मारष्यसीति भावः ॥ ३७॥ सर्वात्मना आदानस्याशक्यत्वज्ञाप नाय विशेषणानि । आशीविषस्य सर्पस्य । चकारो द्रष्टव्यः । क्षुधितस्य तरस्विन इति चाशीविषस्यापि विशेषणम् । अत्र सदृशयोक्यिार्थयोरेक्या रोपानिदर्शनालङ्कारः ॥ ३८ ॥ मन्दरमिति । अवापि राघवस्य भायो यस्त्वमिच्छसीत्यनुषज्यते । स्वस्तिमान सुखित इत्यर्थः ॥३९॥ स्वाक्षि प्रमृजसि । प्रकर्षेण मार्जनं करोषि । लेक्षि लेहनं करोषि । “लिह आस्वादने" इत्यस्माल्लुग्विकरणस्थाद्धातोर्लटि मध्यमपुरुषैकवचनम् । क्षुरंतीक्ष्णधारं शस्त्रम् । सिंहविक्रान्तगामिनं सिंह इव विक्रान्तं गर्वयुक्तं गच्छतीति सिंहविक्रान्तगामी तम् । सिंहसङ्काशं पराक्रमे सिंहसदृशमिति विवेकः ॥ ३४-३६ ॥ मन्दभाक् मन्दो| भागो भागधेयं यस्य । यदा मन्दं क्षीणम् आयुरादिकं भजतीति तोक्तः, क्षीणदशापन्नायुरादिकमित्यर्थः । काञ्चनपादपदर्शनं मुमूर्पूणां लक्षणम् ॥ ३७-४४ ॥ २०१ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy