________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अन्तरप्रप्सुः विश्वेषान्वेषी । तदन्तर तस्मिन्नवकाशे । प्रथमं सीतामुद्दिश्य गमनम् अथाश्रमसमीपगमनं ततः सीतादर्शनं ततः सन्निकर्षगमनमिति क्रमः॥८॥ अथाभिमुखगमनमाह-अभव्य इति । अभव्यः दुर्जनः। भव्यरूपेण सुजनरूपेण । अनुशोचतीमिति आगमशासनस्यानित्यत्वानुमभावः ॥ ९॥ स इति । पापः अन्तः पापात्मा। भव्यरूपेण बाह्याकारणोपलाक्षितः ॥१०॥ बाष्पशोकाभिपीडितां रामार्तस्वरश्रवणेन बाह्याभ्यन्तरास्वास्थ्य
अभव्योभव्यरूपेण भर्तारमनुशोचतीम् । अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः॥९॥ स पापो भव्यरूपेण तृणैः कूप इवावृतः। अतिष्ठत्प्रेक्ष्य वैदेही रामपत्नी यशस्विनीम् ॥ १०॥ शुभां रुचिरदन्तोष्ठी पूर्णचन्द्रनिभाननाम् ।
आसीनां पर्णशालायां वाष्पशोकाभिपीडिताम् ॥११॥ स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् । अभ्यगच्छत वैदेही दुष्टचेता निशाचरः॥ १२॥ स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन् । अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसा धिपः ॥१३॥तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम् । विभ्राजमानां वपुषा रावणः प्रशशंस ह ॥१४॥ का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि । कमलानां शुभां मालां पद्मिनीव हि विभ्रती ॥ १५॥ ह्रीः कीर्तिः श्रीः
शुभा लक्ष्मीरप्सरा वा शुभानने । भूतिर्वा त्वं वरारोहे रातिर्वा स्वैरचारिणी ॥ १६ ॥ वतीम् । पीतकौशेयं वस्ते इति पीतकौशेयवासिनीम् । णिन्यन्तात् डीए । अभ्यगच्छत पूर्वस्मादपि सन्निकर्ष प्राप्तः ॥११॥१२॥ स इति । ब्रह्मघोषम् ।
"उपनिषदमावर्तयेत्" इत्युक्तपरिव्राजकोचितवेदघोषम् । प्रश्रितं विनयान्वितम् । रहिते विजनप्रदेशे ॥ १३ ॥ तामिति । लोके उत्तमा स्त्रियमित्य । कन्वयः। प्रश्रितं वाक्यमब्रवीदित्यस्यैव विवरणं प्रशशंसेति ॥ १४ ॥ काञ्चनवों काञ्चनतुल्यवर्णे ! कमलानां मालां बिभ्रती पद्मिनीव स्थिता ।
पद्मतुल्यमुखनयनपाणिपादविशिष्टत्वादिति भावः॥ १५॥ हीः विष्णुपत्नी भूमिः । “ह्रीश्च ते लक्ष्मीश्च पत्न्यो" इति श्रुतेः। श्रीः कमला । लक्ष्मीः। भव्यरूपेण साधुरूपेणोपलक्षितः ॥९॥१०॥ बाप्पशोकाभिपीडितां बाष्पैः शोकेन चाभिपीडिताम् ॥ ११ ॥ ब्रह्मघोषं परिव्राजकवेचोचितं वेदघोषम् । रहिते रामलक्ष्मणाभ्यो रहिते समये ॥ १२-१४ ॥ टीका-का त्वमित्यादि प्रशस्तया सह संलापार्थः । न त्वज्ञातज्ञानार्थम् ॥१५॥ हीरिति द्वीप्रभृतयो विष्णुशक्तिविशेषाः ॥१६॥
For Private And Personal Use Only