________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भीरखो न हता इति गम्यते । अत एवोत्तरसर्गे हतशेषा इति वक्ष्यति । लक्ष्मणस्याग्रजेनेति रामस्य विष्ण्व(शभाक्त्वेनाधिकबलत्वोक्तिः ॥३६॥३७॥ भीमबलं भीमसैन्यम् । उद्यताशनिः उद्यतवजः ॥ ३८॥ इति श्रीगोविन्दराज श्रीरामायण रत्नमे• आरण्यकाण्डव्याख्याने पइविंशः सर्गः ॥२६॥ ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा । रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यता शनिः ॥ ३८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षइविंशः सर्गः ॥२६॥ खरंतु रामाभिमुखं प्रयान्तं वाहिनीपतिः। राक्षसनिशिरा नाम सन्निपत्येदमब्रवीत् ॥१॥ मां नियोजय विक्रान्त सन्निवर्तस्व साहसात् । पश्य रामं महाबाहुं संयुगे विनिपातितम् ॥२॥ प्रतिजानामि ते सत्यमायुधं चाहमालभे। यथा रामं वधिष्यामि वधार्ह सर्वरक्षसाम् ॥ ३॥ अहं वास्य रणे मृत्युरेष वा समरे मम । विनिवृत्य रणोत्साहान्मुहूर्त प्राश्निको भव ॥४॥ प्रहृष्ठो वा हते रामे जनस्थानं प्रयास्यसि । मयि वा निहते रामं संयुगायोपयास्यसि ॥५॥ विशिर-शिरसा छेददृष्टान्तेन स्वसेविनाम् । दुःखत्रयनिहन्तारं लक्ष्मणाग्रजमाश्रये ॥ खरं त्विति । वाहिनीपतिः सेनापतिः। सन्निपत्य समीपमागत्ये त्यर्थः ॥१॥ साहसात् युद्धाभिमुख्यलक्षणात् । विनिपातितमिति मयतिशेषः॥२॥आलभेस्पृशामि । प्रतिज्ञाप्रकारमाह यथेति । सर्वरक्षसां सर्वरक्षोभिः ॥३॥ मृत्युः मारयिता । प्राग्निकः जयापजयनिर्णायकः॥ ४॥ प्रहृष्टे गर्विष्ठे । संयुगाय युद्धं कर्तुम् । “क्रियार्थोपपदस्य च कर्मणि स्थानिनः" इति| इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां षड्विंशः सर्गः ॥२६॥ खरमिति । सन्निपत्य आगत्य ॥१॥२॥ आयुधमालभे स्पृशामीति ॥ ३ ॥ तस्यावध्यत्वं ज्ञात्वाह एष वेति । मानिक: जयापजयनिर्णायकः । सप्तविंशे सर्गे मां नियोजयेत्यादिसार्धश्लोकचतुष्टयस्य । वास्तवार्थस्तु-हे खर ! संयुगे रामं च तेन विनिपातितं सैन्यं चेति शेषः । पश्य अतस्त्वं साहसानिवर्तस्व मां नियोजय । तर्हि त्वं तं हनिष्यसि किम् ? तबाह प्रतिजानामीत्यादि । सर्वरक्षसां वधार्थ सर्वरक्षसां हन्तारमित्यर्थः । रामं यथा यथावत् । अहं प्रतिजानामि सम्पम् जानामीत्यर्थः । अतः तं वधिण्यामीति सर्वमायुधमालभे अहिष्यामि केवलमित्यर्थः । हन्तुमशक्यश्वेदनेन किम् ? तत्राह-अहमिति । अस्य रामस्य अहं वा रणे मृत्युः, किन्तु एष वा एष राम एव । समरे मम मन्युः अतस्त्वं महोत्साहाद्विनिवर्तस्व मुहूर्त प्राश्निको भवेति सम्बन्धः ॥ ४ ॥ प्रहृष्ट इति । प्रष्टो वाहत इत्यत्र अहत इति पदच्छेदः । रामे
For Private And Personal Use Only