________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
All
वा.रा.भू. ॥ ६० ॥
। सङ्कोचगद्गदैः । वैवर्ण्यस्वेदरोमाञ्च स्तम्भाद्यैरनुभाव्यते ॥” इति । प्रहसन्नित्यनेन गर्वः सूच्यते ॥ १८ ॥ तत्कार्यप्रतिज्ञा माह महोत्पातानिति । तथा चोक्तं चिन्तामणी - " कुलरूपवयोविद्याबलैश्वर्यधनादिभिः । या भवेदात्मनः श्लाघा स गर्व इति कथ्यते । उद्ग्रीवावेक्षणावज्ञा प्रतिज्ञातिर्भवेदिह ॥” इति । महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान् । न चिन्तयाम्यहं वीर्याद्वलवान् दुर्बलानिव ॥ १९ ॥ तारा अपि शरै स्तीक्ष्णैः पातयामि नमः स्थलात् । मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् ॥ २० ॥ राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम् । अहत्वा सायकैस्तीक्ष्णैनपावर्तितुमुत्सहे ॥ २१ ॥ सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः ! यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः॥२२॥ न क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः । युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् ||२३|| देवराजमपि क्रुद्धो मत्तैरावतयायिनम् । वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ ॥ २४ ॥ सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः । प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता ॥ २५ ॥ समीयुश्च महात्मानो युद्धदर्शन कांक्षिणः । ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः ॥ २६ ॥ समेत्य चोचुः सहितास्तेन्योन्यं पुण्यकर्मणः ॥ २७ दुर्बलानिव पुरुषान् ॥ १९ ॥ २० ॥ उत्सिक्तं गर्वितम् ॥ २१-२५ ॥ समीयुः सङ्गताः । सहिताः लोकहितपराः । पुण्यकर्मणः पुण्यकर्माणः । दीर्घा तथापीति शेषः । न न्यवर्तत युद्धयात्राया इति शेषः || १७ || १८ || दुर्बलान् जनानिव ॥ १९ ॥ २० ॥ वलोत्सिक्तं बलाधिकम् । अहत्वा उपावर्तितुं नोत्सह इति सम्बन्धः । वस्तुतस्तु अहत्वा नोपावर्तितुमुत्सह इत्यनेन इत्यवोपावर्तितुमुत्सह इत्यभिप्रायः । हन्तुमसमर्थः अतः नोपावर्तत इति व्यज्यते ॥ २१ ॥ यन्निमित्त इति । या शूर्प णखा निमित्तं यस्य विपर्ययस्य स तथोक्तः । विपर्ययो नाशः । सा भगिनीत्यर्थः । वस्तुतस्तु रामस्य लक्ष्मणस्य च जय इति शेषः । मे मम विपर्ययः नाशश्च यन्निमित्तः या शूर्पणखानिमित्तं यस्य सः । सा भगिनी । तयोः ताभ्यां मृतस्य ममेति शेषः । रुधिरं पीत्वा सकामास्तु ॥ २२ ॥ एवं रामात्स्वमरणं निश्चित्यापि युयुत्सुस्सन स्त्रसेनाधर्योत्पादकानि वाक्यान्याह-न कचिदित्यादिना ||२३|| कुमानुषो को भूमौ मनुष्यरूपेणावतीर्णावित्यवगन्तव्यम् ॥ २४ ॥ मृत्युपाशावपाशिता मोक्षाय । ते च खरदूषणत्रिशिरसो बभूवुः । तच्छानिवृत्यर्थं त्रिगुणात्मके रामेस्त्रां खरादिकाले न्यवेशयत्। तमासनाता प्रमोद जान इत्यविशेयः । शेषधर्मस्थमीष्म युधिष्ठिरसंवादकथात्रानुसन्धेया ॥ १८ ॥
टी. आ. कां.
२०१५
॥ ६० ॥