SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir ०५४॥ चतुर्दशसहस्राध्यक्षानित्यर्थः ॥२१॥२२॥ दुर्वृत्तां भगिनीवैरूप्यमूलत्वात् । अपावर्तितुम् आनेतुम् । तां चेति चकारेण तावपीत्युच्यते । आनयन टी.आ. प्रयोजनमाह इयं चेति । अस्या अयं मनोरथः मम चायमिष्टः सम्मत इत्यर्थः । प्रमथ्य इत्वा ॥२३॥२४॥ इतीति तयोर्मार्ग प्रदर्शपन्त्यति शेषः । इयं खरे २०१९ मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ। प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ॥२२॥ तौ हत्वा तां च दुर्वृत्ता मपावर्तितुमर्हथ । इयं च रुधिरं तेषां भगिनी मम पास्यति ॥२३॥ मनोरथोऽयमिष्टोस्या भगिन्या मम राक्षसाः। शीघ्रं सम्पाद्यतां तौ च प्रमथ्य स्वेन तेजसा ॥ २४॥ इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश । तत्र जग्मुस्तया साधं घना वातेरिता यथा ॥ २५॥ ततस्तु ते तं समुदग्रतेजसं तथापि तीक्ष्णप्रदरा निशाचराः।न शेकुरेनं सहसा प्रमर्दितुं वनद्रिपा दीप्तमिवाग्निमुत्थितम् ॥२६॥ इत्या. श्रीरामायणे श्रीमदारण्यकाण्डे एकोनविंशः सर्गः ॥१९॥ णाप्रेरितापि गतेति बोध्यम् ॥ २५ ॥ प्रदराः बाणाः । “प्रदरा भङ्गनारीरुकबाणाः" इत्यमरः। तथा तीक्ष्णप्रदरा अपीति योज्यम् । तमेलमित्यन्वयः । उत्थितं राक्षसान् दृष्ट्वा अभिमुखमुद्गतमिति रामविशेषणम् । उत्तरसर्गसङ्ग्रहोऽयं श्लोकः ॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्न मेखलाख्याने आरण्यकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९॥ तस्यां बुवाणायां रामवृत्तान्तमिति शेषः । खरः "तस्माद्यः क्रूररूपेण देहेन हरतामृतम् । विष्णुर्दाशरथिर्भूत्वा मोक्षयिष्यति सुव्रत ॥” इति शिवशापाद्राक्ष सत्वं प्राप्तयाज्ञवल्क्यसुतश्चन्द्रकान्त इत्यर्थः । अत एव शूर्पणखामुखादामवृत्तान्त श्रवणानन्तरं विष्णुत्वेन ज्ञात्वा सपरिवारस्य स्वस्थ रामहस्ताद्वधेच्छुस्सन भगिनीप्रीतय इव रामेण सह युद्धार्थ राक्षसान्यादिदेशेत्यर्थः । अस्मिन्नर्ये शेषधर्मे भीष्मयुधिष्ठिरसंवादकथानुसन्धेया । भीष्मः-" याज्ञवल्क्यसुता राजन् प्रयो वै । लोकविश्रुताः । चन्द्रकान्तमहामेधविजया ब्राह्मगोत्तमाः । खरच दूषणश्चेति त्रिशिरा ब्रह्मवित्तमाः। आसन् तेषां च शिष्याश्च चतुर्दशसहस्रधा " इति । अत एव बाह्यदृष्टया परुषोक्तिवत्प्रतीयमानानि तस्य वाक्यानि सौम्यरूपाण्येव तथा व्याख्यास्यामः ॥ २२ ॥ तो हत्वेति श्लोकद्वयमेक वाक्यम् । प्रातीति कार्यः स्पष्टः ।। वस्तुतस्तु हे राक्षसाः! इयं भगिनी प्रमथ्य मम रुधिरं पास्यति अतस्तेषां समीपं गत्वा स्वतेजसा शीण तो रामलक्ष्मणौ दुर्वत्ता दुर्लभं वृत्तमाचारो यस्यास्तां ॥ ५४ सीतां च हत्या ज्ञात्वा "इन हिंसागत्योः" इति धातोर्गत्यर्वस्य ज्ञानार्थत्वात् । अपावर्तितुं प्रतिनिवर्तितुमईथ । अयं मम भगिन्याः इष्टो मनोरथः ॥ २३॥२४ ।। बातेरिता वायुनुन्ना मेघाइव जग्मुरितिसम्बः ॥ २५ ॥ २६ ॥ इति श्रीमहे श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायामेकानविंशः सर्गः॥ १९ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy