SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अथाच्याश्रमे रजनीमुषित्वा प्रातर्निर्गम एकोनविंशत्युत्तरशततमे-अनसूयेत्यादि ॥१॥२॥ रविरित्यादि । उपोह्य समीपं प्रापय्प स्वसंचाराद्ध विमुक्तं प्रदेशं प्रापय्येत्यर्थः ॥ ३॥ एत इति । कलशोद्यताः उद्यतकलशाः ॥४॥ कपोताङ्गारुणः कपोतकन्धरावदव्यक्तरागः।" अव्यक्तराग अनसूया तु धर्मज्ञा श्रुत्वा तां महती कथाम् । पर्यष्वजन बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ १॥ व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया । यथा स्वयम्वरं वृत्तं तत्सर्व हि श्रुतं मया। रमेऽहं कथया ते तु दृढं मधुरभाषिणि ॥२॥ रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् । दिवसं प्रतिकीर्णानामाहारार्थं पतत्त्रिणाम् । सन्ध्याकाले निलीनानां निद्रार्थ श्रूयते ध्वनिः ॥३॥ एते चाप्यभिषेकार्दा मुनयः कलशोद्यताः । सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ॥४॥ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् । कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः॥५॥ अल्पपर्णाहितरवो घनीभूताः समन्ततः । विप्रकृष्टेपि देशेऽस्मिन्न प्रकाशन्ति वै दिशः॥६॥रजनीचरसत्त्वानि प्रचरन्ति समन्ततः। तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ ७॥ सम्प्रवृद्धा निशा सीते नक्षत्रसमलंकृता। जोत्स्नाप्रावरणश्चन्द्रो दृश्यते भ्युदितोऽम्बरे ॥ ८॥ गम्यतामनुजानामि रामस्थानुचरी भव । कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥९॥ स्त्वरुणः" इत्यमरः ॥५॥विप्रकृष्टेपि देशे अल्पपर्णाः ये तरवस्तेपि समन्ततः घनीभूताहि अव्यक्तपर्णान्तरालत्वात् सान्द्रीभूता इव । तत्र हेतुमाह न प्रकाशन्ति वे दिश इति ॥ ६॥ रजनीचरेति । वेदितीर्थेषु वेद्यवतरणप्रदेशेषु । " तीर्थ मन्त्राथुपाध्यायशास्नेष्वम्भसि पावने । पात्रोपधावतरणेषु "थ इति वैजयन्ती ॥७॥८॥ अनुजानामि अनुमतिं करोमि । अनुचरी भवेति पाठः ॥९॥ N॥१॥२॥ उपोह्य समीपं प्रापय्य । सन्ध्याकाले निद्रार्थ निलीनानां पतत्रिणां ध्वनिः श्रूयत इति सम्बन्धः ॥ ३॥ एते चेति । कलशोद्यताः उद्यतकलशाः ॥ ४॥ कपोताङ्गारुणः कपोताङ्गवदरुणः ॥ ५ ॥ अल्पपर्णा ये तरवः ते समन्ततः घनीभूताहि अव्यक्तपान्तरालत्वात्सान्द्रीभूता इव । तत्र हेतुःन प्रकाशन्ति वै दिश इति ॥ ६ ॥ वेदितीर्थेषु वेदिस्थानेषु ॥ ७-९॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy