________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रामागमनमाकांक्षन्नित्यादि । पादुकाभ्यां न्यवेदयत् विज्ञापयामास ॥२४॥२५॥आर्यपादुके अभिषिच्य राज्याभिषेकमार्यपादकयो कृत्वेत्यर्थः। तदधीनः पादुकापरतन्त्रः॥२६॥ तदा पादुके पुरस्कृत्य राज्यपालनसमये । उपायनम् उपहारः । “उपायनमुपग्राह्यमुपहारः" इत्यमरः ॥२७॥
एवं तु विलपन दीनो भरतः स महायशाः। नन्दिग्रामेऽकरोदाज्यं दुःखितो मन्त्रिभिः सह ॥२२॥ स वल्कलजटा धारी मुनिवेषधरः प्रभुः । नन्दिय़ामेऽवसदीरः ससैन्यो भरतस्तदा ॥२३॥ रामागमनमाकांक्षन् भरतो भ्रातृ वत्सलः । भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ॥२४॥ पादुके त्वभिषिच्याथ नन्द्रिग्रामेऽवसत्तदा। भरतः शासनं सर्व पादुकाभ्यां न्यवेदयत् ॥२५॥ ततस्तु भरतः श्रीमानभिषिच्यार्यपादुके । तदधीनस्तदा राज्य कारयामास सर्वदा ॥ २६ ॥ तदा हि यत्कार्यमुपैति किञ्चिदुपायनं चोपहृतं महाहम् । स-पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत्॥२७॥ इत्यार्षे श्रीरामायणे वाल्मी-श्रीमदयोध्याकाण्डे पञ्चदशोत्तरशततमः सर्गः॥११५॥
प्रतिप्रयाते भरते वसन रामस्तपोवने । लक्षयामास सोरेगमथौत्सुक्यं तपस्विनाम् ॥१॥ तनि०-यत्कार्य राज्यपरिपालनकत्यम् । उपायनमित्यत्र यदित्यनुवर्तते । उपायनं पत्रफलपुष्पादिकम् । पादुकाभ्यां प्रथम निवेद्यत्यनेन प्रतिदिनं पादुकार्चा तन्निवेदित स्वीकारश्च ध्वन्यते । यथावच्चकारेति हव्यकव्यादिषु विनियोगो व्यज्यते ॥ २७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्या काण्डव्याख्याने पञ्चदशोत्तरशततमः सर्गः ॥ ११५॥ अथ रामस्य चित्रकूटनिर्गमनं पोडशोत्तरशततमे-प्रतिप्रयात इत्यादि । सोद्वेगं सभयम् । औत्सुक्यम् आश्रमान्तरगमनाभिलापं लक्षयामास इङ्गिताकारादिभिरिति शेषः ॥१॥ सर्व शासनं सर्व कृत्पमित्यर्थः । न्यवदेयत् विज्ञापयामास ॥ २५॥ आर्यपादुके अभिषिच्य राज्याभिषेकमार्यपादुकयोः कृत्वेत्यर्थः । तदधीनः पादुकापरतन्त्रः ॥२६॥ यत्कार्थ राज्यपरिपालनकृत्यं यदुपायनं वखपुष्पफलादिकं पादुकाभ्यां प्रथम निवेद्य पश्चाद्ययावञ्चकार, सर्व कृत्यमिति शेषः ॥ २७ ॥ इति श्रीमहेश्वरतीर्थ विरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायो पञ्चदशोत्ताशततमः सर्गः ॥ ११५.॥ प्रतिप्रयात इति । सोद्वेग सभयम्, औत्सुक्यम्। लाआश्रयान्तरगमनौत्सुक्यं लक्षयामास, इङ्गिताकारादिभिरिति शेषः॥१॥
For Private And Personal Use Only