________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
जघन्यमिति । जघन्य हीनम् । जलाहरणादिकर्म कृतवानपि न गर्हितः। कुत इत्यत्राह भ्रातुरिति । धातुज्येष्ठधातुः । अर्थसहितं प्रयोजनसहित। यत्कर्म तत्सर्व गुणैर्विहितम् । “ ज्येष्ठनाता पितृसमः" इति वचनात पितृशुश्रुषावत् गुणाय कल्पत इत्यर्थः ॥६॥ अद्येति । क्लेशानामतयोचितः
जघन्यमपि ते पुत्रः कृतवान्न तुगर्हितः । भ्रातुर्यदर्थसहितं सर्व तद्विहितं गुणैः॥ ६ ॥ अद्यायमपि ते पुत्रः क्लेशाना मतथोचितः। नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु॥७॥ दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले । पितुरिङ्गुदि पिण्याकं न्यस्तमायतलोचना ॥८॥ तं भूमौ पितुरातेन न्यस्तं रामेण वीक्ष्य सा। उवाच देवी कौसल्या सर्वा दशरथस्त्रियः॥९॥ इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः । राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥१०॥ तस्य देवसमानस्य पार्थिवस्य महात्मनः । नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ ११॥ चतुरन्तां महीं भुक्त्ता महेन्द्रसदृशो विभुः । कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः ॥१२॥ अतो दुःखतरं लोके न किञ्चित् प्रतिभाति
मा। यत्र रामः पितुदेद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ १३॥ इदानीं यादृशक्लेशानुभवस्तादृशक्लेशानामनुचितः । ते अयं पुत्रः नीचानर्थसमाचारं निकृष्टदुःखप्रचुरसमाचारसहितम् । सज्जम् उद्युक्तं कर्म अद्य प्रमुञ्चत्वपि । अपिशब्दः सम्भावनायाम् “अपिः सम्भावनाप्रश्नगर्दाशङ्कासमुच्चये" इति वैजयन्ती । भरतप्रार्थनया रामण स्वराज्ये स्वीकृते लक्ष्मणस्य नीचकर्मप्रमोचनं सम्भवेदिति भावः ।। ७ ।। दक्षिणायेष्विति । पितुरिति चतुर्थ्यर्थे षष्ठी ॥ ८-१०॥ तस्येति । औपयिक प्राप्तम् । “युक्तं स्यादुचितं न्याय्यं प्राप्तमोपयिकं तथा" इति हलायुधः ॥ ११ ॥ १२॥ राज्यैश्वर्ययोग्यतया ऋद्धिमान् इत्यक्तिः ॥ १३ ॥ वाच्यवत्त्वेककृत्स्नयोः" इति वैजयन्ती। इदं रामादीनां स्नानादिभिर्व्यवहितस्थलं नूनमिति भावः ॥ ४॥५॥ ते पुत्र: जघन्य जलाहरणादिनिकृष्ट कर्म कृतवा
नपि न तु गर्हितः । कुत इत्यत आह भ्रातुः ज्येष्ठधातुः । अर्थसहितं प्रयोजनसहितं भ्रातृशुश्रूषारूपमित्यर्थः। यत्कर्म तत्सर्व गुणैर्विहितं ज्येष्ठधातुः पितृसम पात्वात पिताश्रषणं लक्ष्मणस्य गुणाय कल्पत इत्यर्थः॥६॥शानामतथोचितः यथेदानी केशानामुचितो भवति तथा केशानामतचितस्ते अयं पुत्रः, नीचानर्थ
समाचारं नीचो निकृष्टः अनर्थों दुःखम् समाचारोऽनुष्ठानं यस्य तत, जलाहरणादिरूपमित्यर्थः । सज कर्म उद्युक्तं कर्म अद्य प्रसुवेदपि । अपिशब्दः सम्भावना याम् । भरतप्रार्थनया रामेण राज्ये स्वीकृते लक्ष्मणस्थ नीचकर्मप्रमोचनं सम्भवेदिति भावः ।। ७-११ ॥ चतुरन्तां चतुर्दिगन्तान् ॥ १२ ॥ यत्र यदा बुद्धिमान्
r
For Private And Personal Use Only